पीडा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पीडा, स्त्री, (पीडनमिति । पीड + “षिद्भिदा- दिभ्योऽङ् ।” ३ । ३ । १०४ । इति अङ् । तत- ष्टाप् ।) पीडनम् । तत्पर्य्यायः । वाधा २ व्यथा ३ दुःखम् ४ अमानस्यम् ५ प्रसूतिजम् ६ कष्टम् ७ कृच्छ्रम् ८ आभीलम् ९ । इत्यमरः । १ । ९ । ३ ॥ आवाधा १० । इति हलायुधः ॥ आमानस्यम् ११ । इति रायमुकुटः ॥ (शूलम् १२ रुग् १३ वेदना १४ आर्त्तिः १५ तोदः १६ रुजा १७ । इति वैद्यकरत्नमाला ॥ यथा, मनुः । ७ । १६९ । “यदावगच्छेदायत्यामाधिक्यं ध्रुवमात्मनः । तदात्वे चाल्पिकां पीडां तदा सन्धिं समाश्र- येत् ॥”) एषां पीडादीनां मध्ये विशेष्यगामिनो ये दुःखकष्टकृच्छ्राभीलास्ते त्रिलिङ्गाः । सा आध्यात्मिकाधिभौतिकाधिदैविकतापत्रयभेदेन त्रिविधा । आध्यात्मिकोऽपि द्विविधः । यथा, -- “आध्यात्मिकादि मैत्रेय ! ज्ञात्वा तापत्रयं बुधः । उत्पन्नज्ञानवैराग्यः प्राप्नोत्यात्यन्तिकं लयम् ॥ आध्यात्मिको वै द्विविधः शारीरो मानसस्तथा । शारीरो बहुभिर्भेदैर्भिद्यते श्रूयताञ्च सः ॥ शिरोरोगप्रतिश्यायज्वरशूलभगन्दरैः । गुल्मार्शःश्वयथुश्वासच्छर्द्द्यादिभिरनेकधा ॥ तथाक्षिरोगातीसारकुष्ठाङ्गामयसंज्ञकैः । भिद्यते देहजस्तापो मानसं श्रोतुमर्हसि ॥” अङ्गामयो वातजलोदरादिः । १ ॥ * ॥ “कामक्रोधभयद्वेषलोभमोहविषादजः । शोकासूयावमानेर्ष्यामात्स्यर्य्यादिभवस्तथा ॥ मानसोऽपि द्विजश्रेष्ठ ! तापो भवति नैकधा ॥ २ ॥ इत्येवमादिभिर्भेदैस्तापो ह्याध्यात्मिकः स्मृतः ॥ मृगपक्षिमनुष्याद्यैः पिशाचोरगराक्षसैः । सरीसृपाद्यैश्च नृणां जन्यते चाधिभौतिकः ॥ शीतोष्णवातवर्षाम्बुवैद्युतादिसमुद्भवः । तापो द्बिजवरश्रेष्ठ ! कथ्यते चाधिदैविकः ॥ गर्भजन्मजराज्ञानमृत्युनारकजं तथा । दुःखं सहस्रशो भेदैर्भिद्यते मुनिसत्तम ! ॥” इति विष्णुपुराणे । ६ । ५ । १ -- ९ ॥ * ॥ कृपा । शिरोमाला । सरलद्रुः । इति मेदिनी । डे, २० ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पीडा स्त्री।

दुःखम्

समानार्थक:पीडा,बाधा,व्यथा,दुःख,आमनस्य,प्रसूतिज,कष्ट,कृच्छ्र,आभील,भेद्यगामिन्,व्यलीक,अघ,प्रगाढ,अर्ति,अत्यय,आस्तु,बत,अहह

1।9।3।2।1

विष्टिराजूः कारणा तु यातना तीव्रवेदना। पीडा बाधा व्यथा दुःखमामनस्यं प्रसूतिजम्.। स्यात्कष्टं कृच्छ्रमाभीलं त्रिष्वेषां भेद्यगामि यत्.।

 : तीव्रदुःखम्, यातना

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पीडा¦ स्त्री पीड--भावे भिदा॰ अङ्।

१ व्यधायां

२ दुःखे च

३ कृपायां

४ शिरोमालायां

५ सरलवृक्षे च मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पीडा¦ f. (-डा)
1. Pain, anguish, suffering.
2. Compassion, charity, pity.
3. Devastation, laying waste.
4. A chaplet, a garland for the head.
5. The Saral tree, (Pinus longifolia.)
6. Infraction, viola- tion.
7. Damage, injury. E. पीड् to pain, अङ् and टाप् affs.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पीडा [pīḍā], [पीड् भावे भिदा˚ अङ्] Pain, trouble, suffering, annoyance, molestation, agony; आश्रमपीडा R.1.37 'disturbance', 71; मदन˚, दारिद्र्य˚ &c.

Injury, damage, harm; मूढग्राहेणात्मनो यत् पीडया क्रियते तपः Bg.17. 19; Ms.7.169.

Devastation, laying waste.

Violation, infringement.

Restriction.

Pity, compassion.

Eclipse.

A chaplet, garland for the head.

The Sarala tree.

A basket. -Comp. -कर a. troublesome, painful. -करणम् torturing. -गृहम् house of correction. -भाज् a. showing wavy marks of pressure.-स्थानम् (In astrol.) inauspicious distance (of a planet).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पीडा f. pain , suffering , annoyance , harm , injury , violation , damage(624663 डयाind. with pain i.e. unwillingly) Mn. MBh. etc.

पीडा f. devastation(See. पीडन) W.

पीडा f. restriction , limitation Ka1tyS3r. Sch.

पीडा f. obscuration , eclipse (of a planet See. ग्रह-प्) Var.

पीडा f. pity , compassion L.

पीडा f. a chaplet or garland for the head L. (See. आपीड)

पीडा f. Pinus Longifolia L.

पीडा f. a basket L.

पीडा f. w.r. for पीठ.

"https://sa.wiktionary.org/w/index.php?title=पीडा&oldid=500961" इत्यस्माद् प्रतिप्राप्तम्