रुधिर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुधिरम्, क्ली, (रुणद्धि रुध्यते इति वा । रुध + “इषिमदिमुदीति ।” उणा० १ । ५२ । इति किरच् ।) शरीरस्थरसभवधातुः । तत्पर्य्यायः । रक्तम् २ अस्रम् ३ त्वग्जम् ४ कीलालम् ५ क्षतजम् ६ शोणितम् ७ लोहितम् ८ असृक् ९ शोणम् १० लोहम् ११ चर्म्मजम् १२ । इति राजनिर्घण्टः ॥ (यथा, -- “तद्विशुद्धं हि रुधिरं बलवर्णसुखायुषा । युनक्ति प्राणिनं प्राणः शोणितं ह्यनुवर्त्तते ॥” “वलदोषप्रमाणाद्वा विशुद्ध्या रुधिरस्य वा । रुधिरं स्रावयेज्जन्तोराशयं प्रसमीक्ष्य वा ॥” इति चरके सूत्रस्थाने चतुर्व्विंशेऽध्याये ॥ “चतुर्व्विधं यदेतद्धि रुधिरस्य निवारणम् । सन्धानं स्कन्दनञ्चैव पाचनं दहनन्तथा ॥ वणं कषायः सन्धत्ते रक्तं स्कन्दयते हिमम् । तथा सम्पाचयेद्भस्म दाहः सङ्कोचयेत् शिराः ॥ अस्कन्दमाने रुधिरे सन्धानानि प्रयोजयेत् । सन्धाने स्रस्यमाने तु पाचनैः समुपाचरेत् ॥ कल्पैरेतैस्त्रिभिर्वैद्यः प्रयतेत यथाविधि । असिद्धिमत्सु चैतेषु दाहः परम इष्यते ॥ सशेयदोषे रुधिरे न व्याधिरतिवर्त्तते । सावशेवे ततः स्थेयं न तु कुर्य्यादतिक्रमम् ॥ देहस्य रुधिरं मूलं रुधिरेणैव धार्य्यते । तस्माद्यत्नेन संरक्ष्यं रक्तं जीव इति स्थितिः ॥” इति सुश्रुते सूत्रस्थाने चतुर्द्दशेऽध्याये ॥ रुधिरस्रावेऽनध्ययनमुक्तं यथा, मनौ । ४ । १२२ । “रुधिरे च स्रुते गात्राच्छस्त्रेण च परिक्षते । सामध्वनावृग्यजुषी नाधीयीत कदाचन ॥”) कुङ्कुमम् । इत्यमरः ॥ (यथा, रघुः । ११ । २० । “राममन्मथशरेण ताडिता दुःसहेन हृदये निशाचरी । गन्धवद्रुधिरचन्दनोक्षिता जीवितेशवसतिं जगाम सा ॥”)

रुधिरः, पुं, (रुध + किरच् ।) मङ्गलग्रहः । इति मेदिनी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुधिर नपुं।

रक्तम्

समानार्थक:रुधिर,असृज्,लोहित,अस्र,रक्त,क्षतज,शोणित,कीलाल

2।6।64।1।1

रुधिरेऽसृग्लोहितास्ररक्तक्षतजशोणितम्. बुक्काग्रमांसं हृदयं हृन्मेदस्तु वपा वसा॥

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुधिर¦ न॰ रुध--किरच्। शरीरस्थे रसपाकजन्ये

१ धातुभेदे

२ कुङ्कुमे अमरः।

३ मङ्गलग्रहे

४ रक्तवर्णे च पु॰ मेदि॰

५ तद्वर्णवति त्रि॰।

६ मणिभेदे न॰। तदुद्भवादि यथा
“हुतभुग्रूपमादाय दानवस्य यथेप्सितम्। नर्मदायांनिचिक्षेप किञ्चिद्धीनादि भूतले। तत्रेन्द्रगोपकलितंशुकरक्तवर्णं संस्थानतः प्रकरपीलुसमानमात्रम्। नाना-प्रकारविहितं रुधिराख्यरत्नमुद्धृत्य तस्य खलु सर्वसमा-नगेव। मध्यन्दुपाण्डरमतीव विशुद्धवर्णं तच्चेन्द्रनील-सदृशं पटलं तले स्यात्। सैश्वर्य्यभृत्यजनन कथितं तदेवपक्वञ्च तत् किल भवेत् सुरवज्रवर्णम्” गरु॰ पु॰

७८ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुधिर¦ m. (-रं)
1. Blood.
2. Saffron. m. (-रः) The planet MARS. E. रुध् to obstruct, किरच् Una4di aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुधिर [rudhira], a. [रुध्-किरच् Uṇ.1.5] Red, red-coloured.

रम् Blood.

Saffron.

रः The red colour.

The planet Mars; रोहिणीशकटमर्कनन्दनश्चेद् भिनत्ति रुधिरो$थवा शशी Pt.1.213.

A kind of precious stone. -Comp. -अन्धः N. of a hell. -अशनः 'a blood-eater', a demon, an evil spirit. -आख्यः a kind of precious stone.-आननम् one of the five retrograding motions of Mars.-आमयः hemorrhage, piles. -उद्गारिन् a.

emitting blood.

N. of a संवत्सर. -पायिन् m. a demon. -प्लावितa. soaked in blood. -लालस a. sanguinary. -लेपः a. spot of blood. -सार a. sanguine.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुधिर mfn. (prob. fr. the above lost root रुध्, " to be red " ; See. रोहितand also under रुद्र)red , blood-red , bloody AV. v , 29 , 10

रुधिर m. the bloodred planet or Mars VarBr2S. Pan5cat.

रुधिर m. a kind of precious stone(See. रुधिरा-ख्य)

रुधिर ( रु) n. ( ifc. f( आ). )blood S3Br. etc.

रुधिर n. saffron Car.

रुधिर n. N. of a city Hariv. ( cf. शोनित-पुर). ([ cf. Gk. ? ; Lat. ruber , rubeo , rufus ; Lith. ru4das , rau4das , raudo4nas ; Slav. ru8dru8 , ru8de8ti ; Goth. rauths ; Angl.Sax. rea4d ; Eng. red ; Germ. ro7t , rot.])

"https://sa.wiktionary.org/w/index.php?title=रुधिर&oldid=503884" इत्यस्माद् प्रतिप्राप्तम्