भौतिक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भौतिकम्, क्ली, (भूतानां विकार इति ठक् ।) मुक्ता । इति राजनिर्घण्टः ॥ त्रि, भूतसम्बन्धि ॥ (भूतानि क्षित्यादीनि तद्विकारश्च गोघटवृक्षा- दयः । “आहङ्कारिकत्वश्रुतेर्न भौतिकानि ।” इति । २ । २० । सांख्यसूत्रम् ॥ सृष्टिविशेषश्च । तथाच । “ईश्वरकृष्णकृतसांख्यकारिकायाम् । अष्ट विकल्पो दैवस्तैर्य्यग्योनश्च पञ्चधा भवति । मानुष्यश्चैकविधः समासतो भौतिकः सर्गः ॥ अत्र च सर्गे चैतन्योत्कर्षापकर्षविशेषात् तार- तम्यम् । यथा, तत्रैव । ऊर्द्धं सत्त्वविशालस्तमो- विशालश्च मूलतः सर्गः । मध्ये रजोविशालो ब्रह्मादिस्तम्बपर्य्यन्तः ॥

भौतिकः, पुं, महादेवः । इति त्रिकाण्डशेषः ॥ (उपद्रवः । व्याध्यादिः । चक्षुरादि । शरी- रादि ॥ (भूतेषु महदादिक्षित्यन्तेषु आत्मबुद्ध्या उपासकाः भौतिकाः । बौद्धविशेषाः । “भौतिकास्तु शतं पूर्णं सहस्रन्त्वाभिमानिकाः ॥” इति पातञ्जलयोगसूत्रव्यासभाष्यटीकायां वाच- स्पतिमिश्रधृतवचनम् । १ । १९ ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भौतिक¦ त्रि॰ मूतानि पृथिव्यादीनि पिशाचान् वा अधिकृत्यजातानि ठक्।

१ भूताधिकारेण जाते
“आहङ्कारिकत्व-श्रुतेर्न भौतिकानि” सा॰ सू॰।

२ उपद्रवे व्याध्यादौ।

३ मुक्तायां राजनि॰।

४ महादेवे पु॰ त्रिका॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भौतिक [bhautika], a. (-की f.) [भूत-ठक्]

Belonging to created or living beings; प्रहुतो भौतिको बलिः Ms.3.74; आहंकारिकत्वश्रुतेर्न भौतिकानि Sāṅkhya S.

Formed of coarse elements, elemental, material; वृक्षाणां नास्ति भौतिकम् Bhāg. 12 184.9; पिण्डेष्वनास्था खलु भौतिकेषु R.2.57.

Relating to evil spirits.

Possessed by evil spirits.

कः N. of Śiva.

A being, animal (जीव); कालस्य ते किमुत तत्कृतभौतिकानाम् Bhāg.12.8.43.

कम् A pearl.

Anything elemental. -Comp. -मठः a monastery.-विद्या sorcery, witch-craft.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भौतिक mf( ई)n. =prec. mfn. Mn. MBh. etc.

भौतिक n. a pearl L.

भौतिक m. (fr. भूति, ashes?) N. of शिवL.

भौतिक m. a sort of monk Cat.

भौतिक n. anything elemental or material MW.

भौतिक n. a pearl L.

भौतिक n. pl. the qualities of the elements (5 with Buddhists) Dharmas. 40.

"https://sa.wiktionary.org/w/index.php?title=भौतिक&oldid=309540" इत्यस्माद् प्रतिप्राप्तम्