बाली

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बाली, [न्] पुं, (बालः केश उत्पत्तिस्थानत्वेन विद्यते यस्य । बाल + इनिः । नामनिरुक्तिश्च यथा, रामायणे । “अमोघरेतसस्तस्य वासवस्य महात्मनः । बालेषु पतितं बीजं बाली नाम बभूव सः ॥”) इन्द्रपुत्त्रवानरराजविशेषः । स तु श्रीरामचन्द्रेण हतः । तस्योत्पत्तिर्यथा, -- “मेरुर्नगवरः श्रीमान् जाम्बूनदमयः शुभः । तस्य यन्मध्यमं शृङ्गं सर्व्वदैवतपूजितम् ॥ तस्मिन् दिव्या सभा रम्या ब्रह्मणः शतयोजना । तस्यामास्ते सदा देवः पद्मयोनिश्चतुर्मुखः ॥ योगमभ्यसतस्तस्य नेत्राभ्यां यदश्रु स्रवत् । तद्गृहीतं भगवता पाणिना चर्च्चितश्च तत् ॥ निःक्षिप्तमात्रं तद्भूमौ ब्रह्मणा लोककर्त्तृणा । तस्मिन्नश्रुकणे राम ! वानरः संबभूव ह ॥ उत्तरं मेरुशिखरं गतस्तत्र च दृष्टवान् । नानाविहगसंघुष्टं प्रसन्नसलिलं सरः ॥ आप्लुत्य चापतत्तस्मिन् ह्रदे वानरसत्तमः ॥ उत्प्लुत्य तस्मात् स ह्रदादुत्थितः प्लवगः पुनः ॥ तस्मिन्नेव क्षणे राम ! स्त्रीत्वं प्राप स वानरः ॥ तद्रूपमद्भुतं दृष्ट्वा त्याजितौ धैर्य्यमात्मनः । ततस्तस्यां सुरेन्द्रेण स्कन्नं शिरसि पातितम् ॥ अनासाद्यैव तां नारीं सन्निवृत्तमथाभवत् । ततः सा वानरपतिं जज्ञे वानरमीश्वरम् ॥ अमोघरेतसस्तस्य वासवस्य महात्मनः । बालेषु पतितं बीजं बाली नाम बभूव ह ॥ भास्करेणापि तस्यां वै कन्दर्पवशवर्त्तिना । बीजं निषिक्तं ग्रीवायां विधानमनुवर्त्तत । ग्रीवायां पतितं बीजं सुग्रीवः समजायत ॥” इति रामायणे उत्तरकाण्डे । ३७ सर्गः ॥ अपि च । “वानरेन्द्रं महेन्द्राभमिन्द्रो बालिनमात्मजम् । सुग्रीवं जनयामास तपनस्तपतां वरः ॥” इति रामायणे बालकाण्डे १७ सर्गः ॥ “ततः शरेणाभिहतो रामेण रणकर्कशः । पपात सहसा बाली निकृत्त इव पादपः ॥” इति किष्किन्ध्याकाण्डे १७ सर्गः ॥ (बालाः केशाः सन्त्यस्य ।) बालविशिष्टे, त्रि ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बाली¦ f. (-ली) A kind of ear-ring.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बाली [bālī], A kind of ear-ring.

"https://sa.wiktionary.org/w/index.php?title=बाली&oldid=387332" इत्यस्माद् प्रतिप्राप्तम्