मठ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मठ, वासमर्द्दयोः । इति कविकल्पद्रुमः ॥ (भ्वा०- पर०-वासे अक०-मर्द्दने सक०-सेट् ।) मठति । वासो निवासः । मर्द्दः कैश्चिन्न मन्यते । इति दुर्गादासः ॥

मठ, इ ङ आध्याने । इति कविकल्पद्रुमः ॥ (भ्वा०- आत्म०-सक०-सेट् ।) इ मण्ठ्यते । आध्यानं स्मृ म औत्के इत्यत्र व्याख्यातम् । इति दुर्गादासः ॥

मठः, पुं, छात्रादिनिलयः । इत्यमरः । २ । २ । ८ ॥ मठन्ति वसन्ति छात्रादयोऽत्र मठः । मठ वासमर्द्दयोः अल् । छत्रशीला विद्यार्थिनच्छात्राः । छत्रेण गुरुसेवा लक्ष्यते गुरुदोषच्छादनात् छत्रं तच्छी- लत्वात् छात्रः विकारसंघेति ष्णः । आदिना परिव्राजकक्षपणकादीनां ग्रहः । छात्रादीनां निलयो गृहं छात्रादिनिलयः । अर्थकथनमेतत् । नामाप्येतदिति केचित् । छात्रशाला प्रतिश्रय- श्चात्रैव । इति भरतः ॥ गन्त्रीरथः । इति हारा- वली ॥ * ॥ अथ मठादिप्रतिष्ठाप्रयोगः । यदि तद्दिने प्रतिमादिप्रतिष्ठा क्रियते तदा तन्त्रेण वृद्धिश्राद्धादिकं विधाय देवप्रतिष्ठातत्त्वोक्त- विधिना देवप्रतिष्ठां विधाय गृहप्रतिष्ठा कर्त्तव्या । यदिगृहप्रतिष्ठामात्रं तदा प्रातः कृतनित्यक्रियः प्रक्षालितपाणिपाद आचान्तः प्राङ्मुख उदङ्- मुखो वा कुशयुक्तासने उपविश्य ब्राह्मणत्रयं गन्धादिना परितोष्य अस्मिन् विष्णुवेश्मप्रतिष्ठा- कर्म्मणि ओ~ पुण्याहं भवन्तोऽधिब्रुवन्तु इति त्रिः श्रावयेत् । ओ~ पुण्याहमिति त्रिस्तैरुक्ते अस्मिन् विष्णुवेश्मप्रतिष्ठाकर्म्मणि ओ~ स्वस्ति भवन्तोऽधि- ब्रुवन्तु इति त्रिः श्रावयेत् । ओ~ स्वस्तीति त्रिस्तै- रुक्ते अस्मिन् विष्णुवेश्मप्रतिष्ठाकर्म्मणि ओ~ ऋद्धिं भवन्तोऽधिब्रुवन्तु इति त्रिः श्रावयेत् । ओ~ ऋद्ध्य तामिति त्रिर्वदेयुः । यजुर्वेदिनां ओ~ स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः स्वस्ति नस्तार्क्षोऽरिष्टनेमिः स्वस्ति नोबृहस्पति- र्दधातु । इत्यनेनाक्षतान् क्षिपेत् । सामगानान्तु । ओ~ अस्ति सोमोऽयं सुतः । पिबन्तस्य मरुतः । तथास्य गुणाः ॥ “मठस्तु बृंहणो वृष्यो बल्यः सुमधुरो गुरुः । पित्तानिलहरो रुच्यो दीप्ताग्नीनां सुपूजितः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मठ पुं।

शिष्याणां_निलयः

समानार्थक:मठ

2।2।8।1।1

मठश्छात्रादिनिलयो गञ्जा तु मदिरागृहम्. गर्भागारं वासगृहमरिष्टं सूतिकागृहम्. कुट्टिमोऽस्त्री निबद्धा भूश्चन्द्रशाला शिरोगृहम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मठ¦ वासे अक॰ मर्दने सक॰ भ्वा॰ पर॰ सेट्। मठति अमठीतमाठीत् मेठतुः।

मठ¦ आध्याने आ॰ सक॰ सेट् इदित्। मण्ठते अमण्ठिष्ट।

मठ¦ पुंन॰ अर्द्धर्चा॰ मठत्यत्र मठं--घञर्थे क।

१ छात्राद्यावासे

२ देवागारे अमरः। मठप्रतिष्ठातत्त्वे तत्प्रतिष्ठाविधि-र्दृश्यः। देवगृहशब्दे चात्र दृश्यम्।

३ गन्त्रीरथे हारा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मठ¦ m. (-ठः)
1. A school, a college, the residence of young Bra4hmans, prosecuting sacred studies.
2. A building inhabited by asceties of the same order.
3. A temple.
4. A cart, a carriage, particularly drawn by oxen. E. मठ् to dwell, aff. अच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मठः [maṭhḥ] मठम् [maṭham], मठम् [मठत्यत्र मठ् घञर्थे क]

The hut of an ascetic, a small cell or room.

A monastery, convent.

A seminary, college, place of learning.

A temple.

A cart drawn by oxen.

ठी A cell.

A cloister, convent. -Comp. -अधिपतिः, -अध्यक्षः the superintendent of a monastery; principal of a college. -आयतनम् a monastery, college. -चिन्ता charge of a convent; वर्षं यावत् किमन्येन मठचिन्तां दिनत्रयम् Pt.2.63.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मठ mf( ई)n. ( g. अर्धर्चा-दि; ईf. g. गौरा-दि)a hut , cottage , ( esp. ) the retired hut (or cell) of an ascetic (or student) MBh. Ka1v. etc.

मठ m. a cloister , college ( esp. for young Brahmans) , temple ib.

मठ m. a cart or carriage drawn by oxen L.

"https://sa.wiktionary.org/w/index.php?title=मठ&oldid=503336" इत्यस्माद् प्रतिप्राप्तम्