कङ्कमुखुः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्कमुखुः, पुं, (कङ्कस्य मुखमिव मुखंयस्य ।) सन्दंशः । इति हेमचन्द्रः ॥ सा~डाशि इति भाषा । (क्ली, नाल्योद्धरणार्थः यन्त्रभेदः । स तु अस्थिविनष्ट- शल्योद्धरणार्थमुपदिश्यते ॥) अस्य प्रशंसा यथा, “निर्व्वर्त्तते साध्ववगाहने च शल्यं प्रगृह्योद्धरते च यस्मात् । यन्त्रेष्वतः कङ्कमुखं प्रधानं स्थानेषु सर्व्वेष्वविकारि चैव” ॥ सुश्रुतो ॥ (त्रि, यथा रामायणे ६ । ७९ । ६९ ॥ “व्याघ्र-सिंहमुखान् बाणान् काककङ्कमुखानपि” ॥)

"https://sa.wiktionary.org/w/index.php?title=कङ्कमुखुः&oldid=121932" इत्यस्माद् प्रतिप्राप्तम्