जगद्विनाशः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जगद्विनाशः, पुं, (जगतां विनाशो ध्वंसः अखिल- कार्य्यनाश इत्यर्थः यस्मिन् ।) युगान्तः । इति हलायुधः ॥ (प्रलयकाले च अखिलकार्य्य- शून्यत्वं यथाह मनुः । १ । ५२ -- ५४ । “यदा स्वपिति शान्तात्मा तदा सर्व्वं निमीलति ॥ तस्मिन् स्वपिति तु स्वस्थे कर्म्मात्मानः शरीरिणः । स्वकर्म्मभ्यो निवर्त्तन्ते मनश्च ग्लानिमृच्छति ॥ युगपच्च प्रलीयन्ते तदा तस्मिन् महात्मनि । तदायं सर्व्वभूतात्मा सुखं स्वपिति निर्वृतः ॥”)

"https://sa.wiktionary.org/w/index.php?title=जगद्विनाशः&oldid=135166" इत्यस्माद् प्रतिप्राप्तम्