ईश्वरः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईश्वरः, पुं, (ईष्टे इति । ईश् + वरच् । यद्वा, अश्नुते व्याप्नोतीति अशधातोर्वरट् उपधाया ईत्वं च ।) शिवः । (यथा, कुमारे । ७ । ३१ । “तद्गौरवान्मङ्गलमण्डनश्रीः सा पस्पृशे केवलमीश्वरेण” । “अथेश्वरं देवगणः सह सप्तर्षिभिर्विभुम्” ॥ “वाग्भिः स्थितः स्तुवन् यावच्छिवे भावे शिवः स्थितः । शिवं शिवाय भूतानां स्थितं ज्ञात्वा कृताञ्जलिः ॥ क्रोधाग्निरुक्तवान् देवमहं किं करवाणि ते” । “तमुवाचेश्वरः क्रोधं ज्वरो लोके भविष्यसि” ॥ इति चरके चिकित्सास्थाने तृतीयाध्यायः ॥ “ततः सृष्ट्वा प्रजाः शेषं तदा तं क्रोधमीश्वरः । विन्यस्तवान् स भूतेषु स्थावरेषु चरेषु च” ॥ इति सुश्रुते कल्पस्थाने तृतीयाध्यायः ॥) कन्दर्पः । इति मेदिनी ॥ “विशुद्धसत्त्वप्रधानाज्ञानोपहितचैतन्यम्” । इति वेदान्तः ॥ न्यायमते ईश्वरगुणाः । संख्यादि- पञ्च बुद्धिः इच्छा यत्नश्च । ईश्वरस्वरूपं ब्रह्मशब्दे द्रष्टव्यम् ॥ ऐश्वर्य्यशाली । तत्पर्य्यायः । राष्ट्री १ अर्य्यः २ नियुत्वान् ३ इनैनः ४ । इति वेदनि- र्घण्टौ २ अध्यायः ॥ श्रीहरिः । यथा । रुद्रौवाच । “हरे कथय देवेश देवदेवक ईश्वर । को ध्येयः कश्च वै पूज्यः कैर्व्रतैस्तुष्यते परः” ॥ इत्यादि । श्रीहरिरुवाच । “शृणु रुद्र प्रवक्ष्यामि ब्रह्मणा च सुरैः सह । अहं हि देवो देवानां सर्व्वलोकेश्वरेश्वरः ॥ अहं ध्येयश्च पूज्यश्च स्तुतोऽहं स्तुतिभिः सुरैः । अहं प्रपूजितो रुद्र ददामि परमां गतिम्” ॥ इत्यादि च गारुडे २ अध्यायः ॥ (स्वनामख्यातो नृपतिभेदः । यथा, महाभारते । “मतिमांश्च मनुष्येन्द्रः ईश्वरश्चेति विश्रुतः” ।)

"https://sa.wiktionary.org/w/index.php?title=ईश्वरः&oldid=117114" इत्यस्माद् प्रतिप्राप्तम्