छत्त्रधारः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छत्त्रधारः, त्रि, (छत्त्रं धरतीति । धृ + “कर्म्म- ण्यण् ।” ३ । २ । १ । इत्यण् ।) छत्त्रधरः । छातिधरा इति भाषा ॥ तत्पर्य्यायः । छाया- करः २ । इति हेमचन्द्रः । ३ । ४२८ ॥ (यथा, पञ्चतन्त्रे । ३ । ६७ । “स्वपक्षे च यथा, जननी देवी कञ्चुकी मालिकः शय्यापालकः स्पशा- ध्यक्षः सांवत्सरिकः भिषक् जलवाहकः ताम्बूल- वाहकः आचार्य्यः अङ्गरक्षकः स्थानचिन्तकः छत्त्रधारः विलासिनी च ॥”)

"https://sa.wiktionary.org/w/index.php?title=छत्त्रधारः&oldid=134904" इत्यस्माद् प्रतिप्राप्तम्