एकतानः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकतानः, त्रि, (एकेन भावरसेन तन्यते विस्तीर्य्यते इति । तन इञ विस्तारे । कर्म्मण्यण् ।) एकाग्रः । एकविषयासक्तचित्तः । इत्यमरः ॥ (यथा भाग- वते ७ । ९ । ८ । “ब्रह्मादयः सुरगणा मुनयोऽथ सिद्धाः सत्त्वैकतानमतयो वचसां प्रवाहैः । नाराधितुं पुरुगुणैरधुनापि पिप्रुः किं तोष्टुमर्हति स मे हरिरुग्रजातेः” ॥ एकस्तानो विस्तृतिर्यस्येति ।) एकताले पुं । इत्य- मरटीकायां स्वामी ॥

"https://sa.wiktionary.org/w/index.php?title=एकतानः&oldid=120854" इत्यस्माद् प्रतिप्राप्तम्