खखोल्कः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खखोल्कः, पुं, (खे आकाशे सूर्य्यरूपेण खेषु इन्द्रियेषु आत्मरूपेण उल्का इव । अन्तर्व्वहिः- प्रकाशकत्वात् तथात्वम् ।) सूर्य्यः । यथा, -- हरिरुवाच । “पुनः सूर्य्यार्च्चनं वक्ष्ये यदुक्तं भृगवे पुरा । ओम् खखोल्काय ओम् नमः ॥” इति गारुडे १६ अध्यायः ॥ खषोल्कायेति च पाठः ॥ (अयं हि काशीस्थिता- दित्यः । इति काशीखण्डम् ॥ यदुक्तं तत्रैव ५० अध्याये । “खखोल्को नाम भगवानादित्यः परिकीर्त्तितः ॥” एतद्विवरणं तत्रैवाध्याये विशेषतो द्रष्टव्यम् ॥)

"https://sa.wiktionary.org/w/index.php?title=खखोल्कः&oldid=130312" इत्यस्माद् प्रतिप्राप्तम्