फलकाम

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलकामः, त्रि, (फलं कामयते इति । कम + अण् ।) कर्म्मफलकामी । यथा, -- “धर्म्मवाणिजिका मूढाः फलकामा नराधमाः । अर्च्चयन्ति जगन्नाथं ते कामान्नाप्नुवन्त्युत ॥” इति मलमासतत्त्वधृतविष्णुधम्मात्तरीयतृतीय- काण्डीयवचनम् ।

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलकाम¦ त्रि॰ फलं कामयते कमि--अण् उप्॰ स॰। विहि-तकर्मणां फलकामनायुक्ते। तस्य निन्दा मल॰ त॰ विष्णुधर्मोत्तरे उक्ता यथा
“धर्मबाणिजका मूढाः फलकामानराधमाः। अर्चयन्ति जगन्नाथं ते कामं नाप्नुवन्त्युत”।
“कामात्मता न प्रशस्ता” मनुना
“कर्मण्येवाधिकारस्तेमा फलेषु कदाचन” गीतया च।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलकाम/ फल--काम m. desire of reward Jaim.

"https://sa.wiktionary.org/w/index.php?title=फलकाम&oldid=376267" इत्यस्माद् प्रतिप्राप्तम्