एकच्छाया

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकच्छाया¦ स्त्री एकस्य ऋणशोधनेऽन्यासहायस्याधमर्णस्य च्छायासादृश्यम्। अधमर्ण्णसादृश्ये।
“बहवः स्युर्यदि स्वांशान्दद्युः प्रतिभुबोधनम्। एकच्छायाश्रितेष्वेषु धनिकस्ययथारुचि” या॰।
“एकच्छायाश्रितेषु प्रतिभूषु एकस्या-धमर्ण्णस्य छाया सादृश्यं तामाश्रिताः एकच्छायाश्रिताःअधमर्णो यथा ऋणदानाय स्थितस्तथा दानप्रतिभुवो-ऽपि प्रत्येकं द्रव्यदानाय स्थिताः” मिता॰।
“एकच्छा-याप्रविष्टानां दाप्यो यस्तत्र दृश्यते। प्रोषिते तत्सुतोदाप्यः पित्र्यमशं मृते सति” कात्या॰ स्मृ॰। एकैव च्छाया[Page1463-b+ 38] आच्छादनरूपा यत्र। तुल्यच्छादने त्रि॰
“एकच्छायंचक्रतुस्तावाकाशं शरवृष्टिभिः” भा॰ वि॰

१८

७ ।

"https://sa.wiktionary.org/w/index.php?title=एकच्छाया&oldid=249577" इत्यस्माद् प्रतिप्राप्तम्