ईतिः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईतिः, स्त्री, (ईयते ऽनया । ई + क्तिन् ।) डिम्वः । प्रवासः । इत्यमरो मेदिनी च ॥ कृषेः षट्प्रका- रोपद्रवविशेषः । यथा, -- “अतिवृष्टिरनावृष्टिः शलभा मूषिकाः खगाः । प्रत्यासन्नाश्च राजानः षडेता ईतयः स्मृताः” ॥ इति स्मृतिः ॥ (कलहभेदः । नृपतिरहितयुद्धम् । “ईतयो व्याधयस्तन्द्रा दोषा क्रोधादयस्तथा । उपद्रवाश्च वर्त्तन्ते आधयः क्षुद्भयं तथा” ॥ इति महाभारते हनूमद्भीमसंवादे । ३ । १४९ । ३४ ।)

"https://sa.wiktionary.org/w/index.php?title=ईतिः&oldid=117010" इत्यस्माद् प्रतिप्राप्तम्