चक्षुःश्रवाः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्षुःश्रवाः, [स्] पुं, (चक्षुर्नयनमेव श्रवः श्रवणं यस्य ।) सर्पः । इत्यमरः । १ । ८ । ७ ॥ (यथा, नैषधे । १ । २८ । “इति स्म चक्षुःश्रवसां प्रिया नले स्तुवन्ति निन्दन्ति हृदा तदात्मनः ॥” अस्य पर्य्याया यथा, वैद्यकरत्नमालायाम् । “व्याडश्चाशीविषः सर्पो द्विजिह्वोऽहिः सरीसृपः । चक्षुःश्रवा दन्दशूको गूढपात् पन्नगोरगाः ॥”)

"https://sa.wiktionary.org/w/index.php?title=चक्षुःश्रवाः&oldid=133535" इत्यस्माद् प्रतिप्राप्तम्