औडवः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औडवः, पुं, (औड्वी संख्या विद्यते यस्य स औडवः । यद्वा ओडव एव + स्वार्थे अण् ।) ओडवस्वरः । स च रागस्य जातिविशेषः । पञ्चस्वरमिश्रित- रागरागिण्य इति यावत् । यथा, -- “औडवः पञ्चभिः प्रोक्तः स्वरैः षड्भिस्तु षाडवः । सम्पूर्णा सप्तभिः प्रोक्ता रागजातिस्त्रिधा मता” ॥ इति सङ्गीतरत्नाकरः ॥ अपि च । सम्पूर्णस्वराः ष ऋ ग म प ध नि ॥ षाडवस्वराः निषादो- ञ्झिताः ष ऋ ग म प ध ॥ ओडवस्वराः ऋ-प- वर्जिताः ष ग म ध नि ॥ सम्पूर्णरागाः सप्तभिः स्वरैर्यथा । नटवसन्तादयः । षाडवरागाः षड्भिः स्वरैर्यथा । सैरिन्ध्रीप्रभृतयः । ओडवरागाः पञ्चभिः स्वरैर्यथा मल्लारादयः । इति सङ्गीत- दामोदरः ॥ (तथा च संङ्गीतरत्नाकरे स्वराध्याये जातिप्रकरणे । ५३ -- ५४ ॥ “वान्ति यान्त्युडवोऽत्रेति व्योमोक्तमुडवं बुधैः । पञ्चमं तच्च भूतेषु पञ्चसंख्या तदुद्भवा ॥ ओडवी सास्ति येषाञ्च स्वरास्ते त्वोडवा मताः । ते संजाता यत्र गीते तदौडवितमुच्यते ॥ तत्सम्बन्धादौडवञ्च पञ्चस्वरमिद विदुः” । “क्रमादल्पाल्पतरते षाडवौडवकारिणोः” ॥)

"https://sa.wiktionary.org/w/index.php?title=औडवः&oldid=121554" इत्यस्माद् प्रतिप्राप्तम्