ऋणम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋणम्, क्ली, (ऋ + क्त । ऋणमाधमर्ण्ये इति णत्वम् ।) धारः । देना इति भाषा । तत्पर्य्यायः । पर्य्युदञ्च- नम् २ उद्धारः ३ । इत्यमरः ॥ पुनर्देयत्वेन स्वी- कृत्य यत् गृहीतम् । इति जगदीशः ॥ अस्य विवरणं ऋणादानशब्दे द्रष्टव्यम् ॥ * ॥ कुसीदाख्यं ऋणं यथा । “स्थानलाभनिमित्तं यद्दानग्रहणमिष्यते । तत्कुसीदमिति ज्ञेयं तेन वृत्तिः कुसीदिनाम्” ॥ इति नारदः ॥ अस्यार्थः । स्थानं मूलधनावस्थानम् । लाभो वृद्धिः । दानग्रहणपदे कर्म्मण्यनटा साध्ये तेन मूलधनावस्थाने सत्येव यो लाभस्तदर्थं यद्दानं धनिकेन दीयमानं मूलधनं अधमर्णेन च ग्रहणं तथा स्वीकृत्य गृह्यमाणं यत्तदृणम् । इति रत्ना- करादयः ॥ कलाशून्ये तु अवश्यापाकरणियत्व- रूपगुणयोगाद्गौणप्रयोगः । अतएव बाणिज्यार्थ- प्रयुक्तस्य नर्णत्वं इति मिश्राः ॥ * ॥ अपि च । “कुत्सितात् सीदतश्चैव निर्विशङ्कैः प्रगृह्यते । चतुर्गुणं वाष्टगुणं कुसीदाख्यमृणं त्वतः” ॥ इति वृहस्पतिः ॥ अस्यार्थः । कुत्सितात् सीदत- श्चाधमर्णात् सकलं धनं यत् गृह्यते निर्विशङ्कै- रुत्तमर्णैः । चतुर्गुणं वेति वाकारोऽनास्थायां तेन द्वैगुण्यादिलाभः ॥ * ॥ ऋणत्रयविशेषो यथा । “देवानाञ्च पितॄणाञ्च अषीणाञ्च तथा नरः । ऋणवान् जायते यस्मात्तन्मोक्षे प्रयतेत् सदा ॥ * ॥ तत्परिशोधनमाह । “देवानामनृणो जन्तुर्यज्ञैर्भवति मानवः । अल्पवित्तश्च पूजाभिरुपवासव्रतैस्तथा ॥ श्राद्धेन प्रजया चैव पितॄणामनृणो भवेत् । ऋषीणां ब्रह्मचर्य्येण श्रुतेन तपसा तथा” ॥ इति विष्णुधर्म्मोत्तरम् ॥ (जलदुर्गमभूभिः । यथा मुग्धबोधे १ । २८ सूत्रस्य टीकायां दुर्गादासः । “दशार्णो देशः दशार्णा नदी उभयत्र ऋणशब्देन जलदुर्गमभूमिरुच्यते” ॥ अङ्कशास्त्रोक्तः कुतश्चि- दपि राश्यन्तरात् वियोज्य संख्यावान् पदार्थः । यथा वीजगणिते । “धनर्णसङ्कलने करणसूत्रं वृत्तार्द्धम् । योगे युतिः स्यात् क्षययोः स्वयोर्व्वा धनर्णयोरन्तरमेव योगः” ॥ ऋणतीति । ऋण गतौ तस्मात्कः । इति व्युत्पत्त्या वाच्यलिङ्गः । गन्ता । गमनशीलः । यथा, ऋग्वेदे ६ । १२ । ५ । “सद्यो यः स्यन्द्रो विषितो यवीया- नृणो न तायुरतिधन्वा राट्” । “ऋणः शीघ्र- गन्ता” इति भाष्यम् ॥)

"https://sa.wiktionary.org/w/index.php?title=ऋणम्&oldid=120620" इत्यस्माद् प्रतिप्राप्तम्