आकर्षण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकर्षणम्, क्ली, (आ + कृष् + ल्युट् ।) आकर्षः । बलादानयनं । टानन् इति भाषा । यथा, -- “सा त्वं गच्छ मयैवोक्ता पार्श्वं शुम्भनिशुम्भयोः । केशाकर्षणनिर्धूतगौरवा मागमिष्यसि” ॥ इति मार्कण्डेये देवोमाहात्म्यम् ॥ * ॥ तन्त्रोक्तकर्म्मविशेषद्वारा योषाद्यानयनं । यथा । अथाकर्षणं । “आकर्षणविधानानि कथयामि समासतः । यद्दृष्टं त्रैपुरे तन्त्रे यद्दृष्टं भूतडामरे ॥ श्रीवीजं मान्मथं वीजं लज्जावीजं समुद्धरेत् । प्रथमं प्रणतं दत्त्वा त्रिपुरादेविपदं ततः ॥ अमुकीति पदं दत्त्वा आकर्षय द्विधा पदं । स्वाहान्तं मन्त्रमुद्धृत्य जपेद्दशसहस्रकं ॥ षट्कोणचक्रमालिख्य रक्तचन्दनकुङ्कुमैः । षडङ्गं कारयेन्मन्त्री लज्जावीजसमन्वितं ॥ षड्दीर्घभाक्स्वरेणैव नादविन्दुविभूषितं ॥ रक्तपुष्पाक्षतधूपादिनैवेद्यैः प्रपूज्य तां । भावयन् चेतसा देवीं त्रिनेत्रां चन्द्रशेखरां । बालार्ककिरणप्रख्यां सिन्दूरारुणविग्रहां ॥ पद्मञ्च दक्षिणे पाणौ जपमालाञ्च वामके । मन्त्रस्यास्य प्रभावेण रस्मामपि तथोर्व्वशीं ॥ आकर्षयेन्न सन्देहः किं पुनर्मानवीमिह ॥ * ॥ भूर्जपत्रे समालिख्य कुङ्कुमालक्तवारिणा ॥ काश्मीरागुरुकस्तूरीरोचनामिलितेन च । अनामारक्तमिश्रेण कमलाक्षीमनुं लिखेत् ॥ ओ~ ह्रीं कमलाक्षि अमुकीमाकर्षयाकर्षय ओ~फट् ॥ इमं मन्त्रं जपेदादौ सहस्रैकं ततः पुनः । तद्भूर्जपत्रमादाय गुलिकां कारयेत् सुधीः ॥ तेनैवं साध्यपादोत्थमृत्तिकापङ्कवेष्टितां । शोषितां तेजसा भानोर्वेष्टयेत् त्रिकटुकैः पुनः ॥ प्रतिमां स्त्रीनिभां कृत्वा क्षिपेत्तस्यास्तदोदरे । गुलिकां पातयेत् पात्रे प्रतिमां साध्यरूपिणीं ॥ तादृशाभिमुखो भूत्वा निर्जने निशि साधकः । ततस्तद्गतचित्तश्च तावत् कालं जपेन्मनुं । यावदायाति सन्त्रस्ता मदनालसविग्रहा ॥ * ॥ अथान्यत् कथयाम्यत्र नृपाकर्षणहेतवे । देवस्यापि नरस्यापि मोहिनीमन्त्रजापतः ॥ अथ मन्त्रं महेशान्यास्तारमादौ ततस्त्रपां । पञ्चशायकवीजञ्च दत्त्वाथ भुवनेश्वरीं ॥ मोहिनीति च नामान्ते फट्कारं पुनरालिखेत् । स्वाहान्तमन्त्रमुक्तञ्च मध्यवीजेन कारयेत् ॥ षडङ्गान् दीर्घयुक्ताद्यैश्चक्रेऽष्टदलके यजेत् । प्रथमं साध्यनामानि लेख्यानि च कजोदरे ॥ महारजनरक्तेन पूर्ब्बमन्त्रपदं युतं । मोहिनीं पद्मकिञ्जल्के जृम्भिणीं स्तम्भिनीं तथा ॥ वशङ्करीं कुलेशीञ्च ततो वै विश्ववासिनीं । आकर्षिणीं ततः क्लिन्नामर्च्चयेदष्टपत्रके ॥ गन्धपुष्पादिधूपाद्यैर्भक्तियुक्तेन चेतसा । लक्षजप्तेन सर्व्वेषां शीघ्रमाकर्षणं भवेत् ॥ * ॥ ह्रीं कालिकायै धीमहि तन्नः कालि प्रचोदयात् । ओ~ आकर्षिणी वज्रधारिणी हु~ फट् स्वाहा अमुकीमाकर्षय ॥ प्रणवं पूर्ब्बमुद्धृत्य उग्रसेनी ततः परं । नितम्बिनी वह्निजाया विद्या परमदुर्लभा ॥ सिन्दूरपुत्तलिं कृत्वा तस्या नाम हृदि विलिख्य पणमूल्येन ताम्बूलं समानीय आमशरावद्वये नैवेद्यं कृत्वा कृष्णाष्टोत्तरशततुलस्या मूलमन्त्र- पठिते पुत्तल्या हृदि नामस्थाने ताडिते सति सा समायाति” । इति श्रीकृष्णानन्दविद्यावागीश- कृतषट्कर्म्मदीपिका तन्त्रसारश्च ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकर्षण¦ त्रि॰ आ + कृष--ल्युट्। अन्थत्र स्थितस्य वस्तुनः

१ बलेन अन्यत्र नयने
“योषिदाकर्षणे चैव विनियोगःप्रकीर्त्तितः” तन्त्रम्। आकृष्यतेऽनेन करणे ल्युट्।

२ आकर्षणसाधने तन्त्रोक्ते षट्कर्म्मान्तर्गते विधानभेदे च। यथा
“अथाकर्षणविधानानि कथयामि समासतः। यदुक्तंत्रैपुरे तन्त्रे यच्चोक्तं भूतडामरे। श्रीवीजं मान्मथंवीजं लज्जावीजं समुद्धरेत्। प्रथमं प्रणवं दत्त्वा त्रि-पुरादेविपदन्ततः। अमुकीति पदं द्व्यन्तमांकर्षेति द्विधापदम्। खाहान्तं मन्त्रमुद्धृत्य जपेद्दशसहस्रकम्। षट्कोणञ्च समालिख्य रक्तचन्दनकुङ्कुमैः। षडङ्गङ्कारये-न्मन्त्री लज्जावीजसमन्वितम्। षड्दीर्घभाक्खरैणैवनादविन्दुविभूषितम्। रक्तपुष्पाक्षतधूपनैवेद्यैः परि-पूज्य ताम्। भावयंश्चेतसा देवीं त्रिनेत्रां चन्त्रशेखराम्। बालार्ककिरणप्रख्यां सिन्दूरारुणविग्रहाम्। पद्मञ्चदक्षिणे पाणौ जपमालाञ्च वामके। मन्त्रस्यास्य प्रसादेनरम्भामपि तथोर्व्वशीम्। आकर्षयेन्न सन्देहः किं पुन-र्मानुषीमिह। भूर्ज्जपत्रे समालिख्य कुङ्कुमालक्तवारिणा। काश्मीरागुरुकस्तूरीरोचनामिलितेन तु। अनामारक्त-मिश्रेण कामलाक्षीमनुं जपेत्। (आं श्रीं कामलाक्षिअमुकोमाकर्षय आकर्षय हुं फट्)। इमं मन्त्रं जपेदादौसहस्रैकं जपेत् पुनः। भूर्जपत्रं समादाय गुलिकांकारयेत् सुधीः। तेनैव साध्यपादोत्थमृत्तिकापङ्कवेष्टितम्। शोधितं तेजसा भानोर्वेष्टयेत् कटुभिस्त्रिभिः। प्रतिमांस्त्रीनिभां कृत्वा तस्यां क्षिपेत्तथोदरे। गुलिकां पातयेत्पात्रे प्रतिमां साध्यरूपिणीम्। तादृशाभिमुखो-भूत्वा निर्जने निशि साधकः। यावद्गच्छति चित्तञ्च तावद्रूपंजपेन्मनुम्। यावदायाति संत्रस्ता मदनालसविग्रहा” तन्त्रसा॰। तत्र होमसाधनद्रव्यमुक्तं तत्रैव।
“आकर्षणेतथा लोध्रं सतिलं मधुरान्वितम्”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकर्षण¦ n. (-णं) Pulling, drawing, attracting. f. (-णी)
1. A crooked stick, for pulling down fruit, &c.
2. Any instrument for pulling. E. आङ् before कृष् to pull, ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकर्षण [ākarṣaṇa], a. Attracting, carrying to another place.

णम् Pulling, drawing, attracting.

Seduction.

णी A curved stick for pulling down fruits, flowers &c. (standing on elevated places); any instrument for pulling.

A variety of Mudrā (or mark on the body).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकर्षण/ आ-कर्षण n. pulling , drawing near , attracting MBh. Mr2icch. etc.

आकर्षण/ आ-कर्षण n. (in Tantric texts) attracting an absent person into one's presence by magic formulas

आकर्षण/ आ-कर्षण n. tearing by (as by the hairs ; in comp. ) Ma1rkP. Ven2is. (quoted in Sa1h. )

आकर्षण/ आ-कर्षण n. bending (of a bow) Car.

"https://sa.wiktionary.org/w/index.php?title=आकर्षण&oldid=490222" इत्यस्माद् प्रतिप्राप्तम्