कक्कोल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कक्कोलः, पुं क्ली, (ककते गच्छति दिशि प्रकाशते इत्यर्थः ततः क्विप् कक्कोलति संस्त्यायति कुल- धातोर्ज्वलादित्वात् णः । कक्चासौ कोलश्चेति । “पूगकक्कोलकर्पूरलवङ्गसुमनःफलैरित्युक्तेः” ।) सुगन्धिद्रव्यविशेषः । का~कला इति भाषा । अस्य गुणाः । कटुत्वम् । हृद्यत्वम् । सुगन्धित्वम् । कफ- वातनाशित्वञ्च । इति राजवल्लभः ॥ (यथा रामा- यणे ३ काण्डे । “वनानि च सुरम्याणि कक्कोलानां त्वचस्य च” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कक्कोल¦ पु॰ ककते गच्छति क्विप् कक्, कोलति संस्त्यायतिकुल--अच् कोलः कक् चासौ कोलश्चेति कर्म्म॰। गन्धद्रव्य-साधने वृक्षे (कांकोल) इति वङ्गभाषाख्याते (वनकपूर,)इति पाश्चात्त्यख्याते।
“आकम्पितकक्कोलैः नमेरुकुसुम-पांशुपातिभिः” काद॰।
“कक्कोलं लघु तीक्ष्णोष्णं तिक्तंहृद्यं रुचिप्रदम्। आस्यदुर्गन्धिहृद्रोगकफवातामया-न्ध्यहृत्” भावप्र॰ तद्गुणाः
“जातीफललवङ्गकक्कोलमेषाञ्चषट्पलम्। प्रोक्तमाचमनमिति” तन्त्रसारः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कक्कोल¦ m. (-लः) A perfume, a plant bearing a berry, the inner part of which is a waxy and arometic substance. n. (-लं) The berry, possibly the fruit of the Cocculus Indicus. E. कक् to be proud, with क्विप् affix, कुल् to accumulate, अच् affix; also with कन् added कक्कोलक mn. (-कः-कं।)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कक्कोल m. a species of plant (bearing a berry , the inner part of which is waxy and aromatic) Sus3r. R. etc.

कक्कोल n. a perfume prepared from the berries of this plant Sus3r.

"https://sa.wiktionary.org/w/index.php?title=कक्कोल&oldid=494322" इत्यस्माद् प्रतिप्राप्तम्