रक्तखदिरः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तखदिरः, पुं, (रक्तः रक्तवर्णः खदिरः ।) रक्तवर्णखदिरवृक्षः । तत्पर्य्यायः । रक्तसारः २ सुसारः ३ ताम्रसारकः ४ बहुशल्यः ५ याज्ञिकः ६ कुष्ठनोदनः ७ यूपद्रुमः ८ अस्रखदिरः ९ अरुः १० । अस्य गुणाः । कटुत्वम् । उष्णत्वम् । कषायत्वम् । गुरुत्वम् । तिक्तत्वम् । आमवाता- स्रवातव्रणभूतज्वरनाशित्वञ्च । इति राज- निर्घण्टः ॥ तत्पर्य्यायगुणाश्च । “खदिरो रक्तसारश्च गायत्त्री दन्तधावनः । कण्टकी बालपत्रश्च बहुशल्यश्च यज्ञियः ॥ खदिरः शीतलो दन्त्यः कण्डूकासारुचिप्रणुत् । तिक्तः कषायो मेदोघ्नः कृमिमेहज्वरव्रणान् । श्वित्रशोथामपित्तास्रपाण्डुकुष्ठकफान् हरेत् ॥” इति भावप्रकाशः ॥

"https://sa.wiktionary.org/w/index.php?title=रक्तखदिरः&oldid=160315" इत्यस्माद् प्रतिप्राप्तम्