दक्षिणदिक्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिणदिक्¦ स्त्री दक्षिणा दिक्। स्वापेक्षया मेरुतो वि-प्रकृष्टदिशि। तदधिपः भौमः र्यथाह
“सूर्य्यः सोमः क्षमापुत्रः सैंहिकेयः शनिः शशी। सौम्यस्त्रिदशमन्त्री च प्राच्यादिदिगधीश्वराः” ज्यो॰ त॰। तत्र बलिनौ ग्रहौ भास्करभूमिजौ यथाहतत्रैव
“प्राच्यां भौम्यसुराचार्य्यौ याम्यां भास्करभूमि-जौ। प्रत्यक् सौरिरुदीच्यां तु सितेन्दू दिग्बलान्वितौ” तद्दिक्पतिः शक्रः
“इन्द्रो वह्निः पितृपतिर्नैरृतो वरुणोमरुत्। कुवेर ईशः पतयः पूर्वादीनां दिशां क्रमात्” इत्युक्तेः। तद्दिग्वलिनो राशयश्च अजवृषमृगसिंहाः।
“ऐन्द्रे मानुषराशयस्तु पशवो याम्ये सवीर्य्याअलि-र्वारुण्यां बलयुक् तथैव बलिनः पानीयजाश्चोत्तरे” ज्यो॰त॰ उक्तेः। तद्दिक्पतिराशवः वृषकन्यामकरराशयःयथाह ज्यो॰ त॰
“प्रागादिककुभां नाथा यथासंख्यं[Page3411-a+ 38] प्रदक्षिणम्। मेषाद्याराशयो ज्ञेयास्त्रिरावृत्त्या परि-भ्रमात्”। तद्दिङ्मुखनक्षत्राणि च मघादिसप्तकम्।
“कृत्तिकाद्यास्तु पूर्वादौ सप्त सप्तोदिताः क्रमात्” ज्यो॰ त॰ उक्तेः। दक्षिणदिग्भागस्था देशाश्च कूर्म्मवि-भागशब्दे वृ॰ सं॰

१४ अ॰ उक्ताः
“अथ दक्षिणेन लङ्का” इत्युपक्रमे दर्शिताः।

"https://sa.wiktionary.org/w/index.php?title=दक्षिणदिक्&oldid=414767" इत्यस्माद् प्रतिप्राप्तम्