अवसर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवसरः, पुं, (अव + सृ + अच् ।) प्रस्तावः । मन्त्र- विशेषः । वर्षणं । इति मेदिनी ॥ वत्सरः । क्षणं । इति हेमचन्द्रः ॥ अवकाशः । यथा । “गो- बधे एका चेद्बहुभिरित्युपदेशेन दण्डवत् प्राय- श्चित्तानि भवन्तीत्यतिदेशानवसरात् । तदवस- रत्वे प्रत्येकं पूर्णप्रायश्चित्तद्वैगुण्यं स्यात्” । इति प्रायश्चित्वतत्त्वं ॥ (योग्यकालः । क्रियास्थितियोग्य- तासम्पादकरूपः कालिकोऽवकाशः । यथा, -- “कामस्तु बाणावसरं समीक्ष्य” । इति कुमारे । शिष्यजिज्ञासानिवृत्ताववश्यवक्तव्यरूपः सङ्गति- विशेषः । अनन्तरवक्तव्यत्वम् अवसरः । “उप- मानेऽवसरसङ्गतिः” । इति जगदीशः ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवसर पुं।

अवसरः

समानार्थक:प्रस्ताव,अवसर,काण्ड,पर्याय,वार,अन्तर

3।2।24।2।2

लवोऽभिलावो लवने निष्पावः पवने पवः। प्रस्तावः स्यादवसरस्त्रसरः सूत्रवेष्टनम्.।

पदार्थ-विभागः : , द्रव्यम्, कालः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवसर¦ पु॰ अव + सृ--अच्।

१ प्रस्तावे, जिज्ञासानिवृत्तयेऽवश्यवक्तव्ये

२ सङ्गतिभेदे सङ्कतयश्च तच्छशब्दे वक्ष्यन्ते

४ वत्सरे,मन्त्रभेदे,

५ वर्षणे, क्रियास्थितियोग्यतासम्पादकरूपे

६ कालिकेऽवकाशे च।
“शशंस सेवावसरं सुरेभ्यः” कुमा॰
“अन्योन्यदर्शनप्राप्तोविक्रमावमरं चिरात्” रघुः
“अवसर-मधिगम्य तं हरन्त्यः” माघः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवसर¦ m. (-रः)
1. Occasion, opportunity.
2. Rain, raining.
3. Consulta- tion in private.
4. A year.
5. A moment. E. अव, सृ to go, अप् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवसरः [avasarḥ], 1 Occasion, opportunity, time; उत्पन्नावसर- मर्थित्वम् M.3; नास्यावसरं दास्यामि Ś.2; भवद्गिरामवसरप्रदानाय वचांसि नः Śi.2.8; विसर्जन˚ सत्कारः Ś.7; ˚प्राप्तम् suited to the occasion M.1; K.158; ˚तुलिताभिः Pt.5.28. equal to the occasion; वेदस्यावसरो$त्र कः Ks.5.62 what has the Veda to do here?

(Hence) A fit or proper opportunity, proper or opportune time; अवसरपठिता वाणी गुणगणरहितापि शोभते पुंसाम् Subh. Ratn. शशंस सेवावसरं सुरेभ्यः Ku.7.4; अवसरो$यमात्मानं प्रकाशयितुम् Ś.1; see अनवसर also; अवसरो$पसर्पणीया राजानः Ś.6.

Space, room, scope; कुमुदेङ्गना मनसि चावसरम् (अलभत) Śi.9.41.

Leisure, advantageous position.

Introduction.

A kind of संगीत q. v.

A year.

Raining.

Descent.

A consultation in private. -Comp. -काले, -वेलायाम् ind. On a favourable opportunity.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवसर/ अव-सर See. अव-सृ.

अवसर/ अव-सर m. " descent (of water) " , rain L.

अवसर/ अव-सर m. occasion , moment , favourable opportunity S3ak. etc.

अवसर/ अव-सर m. seasonableness , appropriate place for anything( gen. ) Katha1s.

अवसर/ अव-सर m. any one's( gen. )turn Pan5cat.

अवसर/ अव-सर m. leisure , advantageous situation L.

अवसर/ अव-सर m. (= मन्त्र)consultation in private(?) L.

अवसर/ अव-सर m. a year L.

"https://sa.wiktionary.org/w/index.php?title=अवसर&oldid=489171" इत्यस्माद् प्रतिप्राप्तम्