कक्कोलक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कक्कोलकम्, क्ली, (कक्कोलस्य + इदमर्थे स्वार्थे वा कन् । शाल्मलिद्वीपान्तर्गतसप्तमवर्षपर्ब्बतः । तद्विचरणं विष्णुपुराणे २ अंशे ४ अध्याये द्रष्टव्यम्” ॥) गन्धद्रव्यविशेषः । का~कला इति ख्यातम् । तत्पर्य्यायः कोलकम् २ कोषफलम् ३ । इत्यमरः ॥ कृत- फलम् ४ कटुकफलम् ५ द्वेष्यम् ६ स्थूलमरिचम् ७ कक्कोलम् ८ माधवोचितम् ९ कालम् १० कटफलम् ११ मरिचम् १२ । अस्य गुणाः । कटुत्वम् । तिक्तत्वम् । उष्णत्वम् । वक्त्रजाड्यहर- त्वम् । दीपनत्वम् । पाचनत्वम् । रुचिकारित्वम् । कफवातरोगनाशित्वञ्च । इति राजनिर्घण्टः ॥ (“कक्कोलकं लवङ्गञ्च तिक्तं कटुकफापहम् । लघुतृष्णापहं वक्त्रक्लेददौर्गन्ध्यनाशनम्” ॥ इति सुश्रुतः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कक्कोलक नपुं।

फलकर्पूरः

समानार्थक:कोलक,कक्कोलक,कोशफल

2।6।130।1।1

कक्कोलकं कोशफलमथ कर्पूरमस्त्रियाम्. घनसारश्चन्द्रसंज्ञः सिताभ्रो हिमवालुका॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कक्कोलक¦ पु॰ इदमर्थे कन्।

१ कक्कोलवृक्षजाते गन्धद्रव्ये(वनकर्पूर) इति ख्याते। तस्य कोषे फलवत्त्वात् कोषफलइति प्रसिद्धिः

२ स्थूलमरिचे राजनि॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कक्कोलक n. the above perfume Sus3r.

"https://sa.wiktionary.org/w/index.php?title=कक्कोलक&oldid=255535" इत्यस्माद् प्रतिप्राप्तम्