ऐकाहिकम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐकाहिकम्, त्रि, (एकाहे भवम् । एकाह + ठक् ।) एकाहनिष्पन्नम् । एकदिनान्तरभवम् । इति वैद्य- कम् ॥ (वैद्यकगोपालकृष्णकविभूषणकृतकषाय- संग्रहे दास्यादिपाचने यथा । “भूतोत्थं विषमं त्रिदोषजजनितञ्चैकाहिकं द्व्याहिकम् ॥ “काकजङ्घा बला श्यामा ब्रह्मदण्डी कृताञ्जलिः । पृश्निपर्णी त्वपामार्गस्तथा भृङ्गराजोऽष्टमः ॥ एषामन्यतमं मूलं पुष्येणोद्धृत्य यत्नतः । रक्तसूत्रेण संवेष्ट्य बद्धमैकाहिकं जयेत्” ॥ इति वैद्यकचक्रपाणिसंग्रहे ज्वराधिकारे ॥) एकाहभवम् । यथा, -- “ऐकाहिकं द्वितीयस्थं तृतीयकचतुर्थकम्” । इत्यादि माहेश्वरकवचम् ॥

"https://sa.wiktionary.org/w/index.php?title=ऐकाहिकम्&oldid=121258" इत्यस्माद् प्रतिप्राप्तम्