उक्थशास्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उक्थशाः [स्] पुं, (उक्थैरुक्थानि वा शंसति । मन्त्रे श्वेतवहोक्थशस्पुरोडासोण्विन्नित्यत्र श्वेत- वहादीनां डस् पदस्येति वक्तव्यम् । यत्र पदत्वं भावि तत्र डस् । अन्यत्र ण्विः ॥) यजमानः । इति व्याकरणं ॥ (यथा, ऋग्वेदे । ७ । १९ । ९ । “नरः शंसन्त्युक्थशास उक्था” ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उक्थशास्¦ पु॰ उक्थानि शंसति शन्स--ण्वि नि॰ नलोपःउप॰ स॰। शस्त्रशंसके।
“शुचीदयन्दीधितिमुक्थ-शासः” ऋ॰

४ ,

२ ,

१६ ।
“अस्य पदकाले ह्रस्वश्छा-न्दसः” माधवः।
“नीहारेण प्रावृता जल्प्याचासुतृप उक्-थशासश्चरन्ति” ऋ॰

१० ,

८२ ,

७ ।
“नरः शंसन्त्युक्थशासउक्था” ऋ॰

७ ,

१९ ,

९ ।

"https://sa.wiktionary.org/w/index.php?title=उक्थशास्&oldid=227677" इत्यस्माद् प्रतिप्राप्तम्