एकदन्तः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकदन्तः, पुं, (एको दन्तो यस्य ।) गणेशः । इत्यमरः ॥ (परशुरामकृतगणेशदन्तोत्पाटनकथा ब्रह्मवैवर्त्ते उक्ता । एकदा रहसि स्थितयोः शिवा- शिवयोर्द्वारपालत्वमङ्गीकृतं गजाननेन । एतस्मिन्न- न्तरे परशुरामः शिवं द्रुष्टुमागतः । शिव- दर्शनव्याकुलस्यान्तर्जिगमिषोर्द्वाररोधे कृते गण- पतिना सह तस्य तुमुलं युद्धमभवत् । परशु- रामक्षिप्तेन परशुना च गजाननस्य एको दन्तः भग्नः । तदा प्रभृत्येव एकदन्तोऽसौ कथ्यते ॥)

"https://sa.wiktionary.org/w/index.php?title=एकदन्तः&oldid=120872" इत्यस्माद् प्रतिप्राप्तम्