मघवा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मघवा, [न्] पुं, (मह्यते पूज्यते इति । मह- पूजायाम् । “श्वन्नुक्षन् पूषन् प्लीहन्निति ।” उणा० । २ । १५८ । इति कनिन् । निपातनात् हस्य घः अवुगागमश्च ।) इन्द्रः । इत्यमरः १ । १ । ४४ ॥ (यथा, रघौ । १ । २६ । दुदोह गां स यज्ञाय शस्याय मघवा दिवम् । सम्पद्विनिमयेनोभौ दधतुर्भुवनद्बयम् ॥”) जिनानां द्वादशचक्रवर्त्त्यन्तर्गतचक्रवर्त्तिविशेषः । इति हेमचन्द्रः ॥ (सप्तमद्वापरस्य व्यासः । यथा, देवीभागवते । १ । ३ । २८ । “मघवा सप्तमे प्राप्रे वशिष्ठस्त्वष्टमे स्मृतः ।”)

"https://sa.wiktionary.org/w/index.php?title=मघवा&oldid=155316" इत्यस्माद् प्रतिप्राप्तम्