लकुचः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लकुचः, पुं, (लक्यते इति । लक स्वादे + बाहु- लकादुचः ।) वृक्षविशेषः । डेहुया इति मादार इति च भाषा । तत्पर्य्यायः । लिकुचः २ शालः ३ कषायी ४ दृढवल्कलः ५ डहुः ६ कार्श्यः ७ शूरः ८ स्थूलस्कन्धः ९ । अस्य गुणाः । तिक्तरसत्वम् । कषायत्वम् । उष्णत्वम् । लघु- त्वम् । कण्ठदोषहरत्वम् । दाहित्वम् । मल- संग्रहदायकत्वञ्च । इति राजनिर्घण्टः ॥ * ॥ अपि च । “लकुचः क्षुद्रपनसो लिकुचो डहुरित्यपि । आमं लकुचमुष्णञ्च गुरु विष्टम्भकृत्तथा ॥ मधुरञ्च तथाम्लञ्च दोषत्रितयरक्तकृत् । शुक्राग्निनाशनञ्चापि नेत्रयोरहितं स्मृतम् ॥ सुपक्वं तत्तु मधुरमम्लं चानिलपित्तकृत् । कफवह्निकरं रुच्यं वृष्यं विष्टम्भकञ्च तत् ॥” इति भावप्रकाशः ॥ * ॥ अन्यच्च । “लकुचं गुरु विष्टम्भि स्वाद्वम्लं रक्तपित्तकम् । श्लेष्मकारि समीरघ्नमुष्णं शुक्राग्निनाशनम् ॥” इति वैद्यकम् ॥

"https://sa.wiktionary.org/w/index.php?title=लकुचः&oldid=162271" इत्यस्माद् प्रतिप्राप्तम्