ऊर्ण्णनाभ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्ण्णनाभ¦ पु॰ उर्ण्णनाभवत्। (माकडशा)

१ लूतायाम्
“यस्तूर्ण-नाभ इव तन्तुभिः प्रधानजैः” छा॰ उ॰। गोत्रप्रवर्त्तके

२ ऋषिभेदे ततः अपत्ये शिवा॰ अण्। और्णनाभ तदपत्येपुंस्त्री। स्त्रियां ङीप्। तस्य परिशीलितोदेशः राजन्या॰वुञ्। और्णनाभक तच्छीलितदेशे। समासान्तंविधेरनित्य-त्वात् क्वचित् अच् न।
“नाचारेण विना सृष्टिरूर्णना-[Page1387-b+ 38] भेरपीष्यते। न च निःसाधनः कर्त्ता कश्चित् सृजतिकिञ्चन” शब्दा॰ धृतवाक्यम्।
“यथोर्णनाभिः सृजते गृह्णतेच यथा पृथिव्यामोषधयः सम्भवन्ति” मुण्डकोप॰।

"https://sa.wiktionary.org/w/index.php?title=ऊर्ण्णनाभ&oldid=246682" इत्यस्माद् प्रतिप्राप्तम्