प्रवासः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवासः, पुं, (प्रवसन्त्यस्मिन्निति । प्र + वस् + “हलश्च ।” ३ । ३ । १२१ । इति घञ् ।) विदेशः । विदेशस्थितिः । यथा, -- “कर्णेजपैराहितराज्यलोभा स्त्रैणेन नीता विकृतिं लघिम्ना । रामप्रवासे व्यमृषन्नदोषं जनापवादं सनरेन्द्रमृत्युम् ॥” इति भट्टिः । ३ । ७ ॥ * ॥ द्वादशवर्षाश्रुतवार्त्ताकप्रोषितस्य तत्प्रवासाद्य- दिने श्राद्धं कर्त्तव्यम् । यथा, -- “प्रवासवासरे ज्ञेयं तन्मासेन्दुक्षयेऽथवा ॥” इति मिताक्षरा । ३ । ७ ॥ * ॥ प्रवासागतेन गुर्व्वाद्यभिवादनं कर्त्तव्यम् । यथा, “विप्रोष्य पादग्रहणमन्वहञ्चाभिवादनम् । गुरुदारेषु कुर्व्वीत सतां धर्म्ममनुस्मरन् ॥ मातृष्वसा मातुलानी श्वश्रूश्चाथ पितुः स्वसा । प्रपूज्या गुरुपत्नीव समास्ता गुरुभार्य्यया ॥ भ्रातृभार्य्योपसंग्राह्या सवर्णाहन्यहन्यपि । विप्रोष्य भूप ! संग्राह्या ज्ञातिसम्बन्धियोषितः ॥ पितुर्भगिन्यां मातुश्च ज्यायस्याञ्च स्वसर्य्यपि । मातृवद्वृत्तिमातिष्ठेन्माता ताभ्यो गरी- यसी ॥” इति कौर्म्मे उपविभागे १३ अध्यायः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवासः [pravāsḥ], 1 (a) Going or journeying abroad, being absent from one's home, foreign residence; कुशः प्रवासस्थ- कलत्रवेषाम् (वनितामपश्यत्) R.16.4; Ś.4.3; U.6.38; स्नेहः प्रवासाश्रयात् Pt.1.169; Bh.3.94. (b) A temporary sojourn; प्रवासादुपावृत्तेन काश्यपेनादिष्टो$स्मि Ś.4.

(In astr.) Heliacal setting of the planets. -Comp. -गत, -स्थ, -स्थित a. journeying abroad, being absent from home.-पर a. addicted to living abroad.

"https://sa.wiktionary.org/w/index.php?title=प्रवासः&oldid=356152" इत्यस्माद् प्रतिप्राप्तम्