चक्रमर्द्दः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रमर्द्दः, पुं, (चक्रं चक्राकारदद्रुरोगं मृद्नातीति । मृद् + “कर्म्मण्यण् ।” ३ । २ । १ । इत्यण् ।) क्षुपविशेषः । चाकुन्दिया इति भाषा ॥ तत्- पर्य्यायः । एडगजः २ अडगजः ३ गजाख्यः ४ मेषाह्वयः ५ एडहस्ती ६ व्यावर्त्तकः ७ चक्र- गजः ८ चक्री ९ पुन्नाटः १० पुन्नाडः ११ विम- र्द्दकः १२ दद्रुघ्नः १३ तर्व्वटः १४ चक्राह्वः १५ शुकनाशनः १६ दृढबीजः १७ प्रपुन्नाडः १८ खर्ज्जुघ्नः १९ । इति राजनिर्घण्टः ॥ चक्र- मर्द्दकः २० पद्माटः २१ उरणाख्यः २२ । इत्य- मरः । २ । ४ । १४७ ॥ प्रपुन्नडः २३ प्रपुनाडः २४ उरणाक्षः २५ । इति तट्टीका ॥ अस्य गुणाः । कटुत्वम् । तीव्रत्वम् । मेदोवातकफकण्डूकुष्ठदद्रु- पामादिदोषनाशित्वञ्च । इति राजनिर्घण्टः ॥ लघुत्वम् । स्वादुत्वम् । रूक्षत्वम् । पित्तश्वास- कृमिनाशित्वम् । हृद्यत्वम् । हिमत्वञ्च । तत् फलगुणाः । उष्णताकुष्ठकण्डुदद्रुविषानिलगुल्म- कासकृमिश्वासनाशित्वम् । कटुत्वञ्च । इति भाव- प्रकाशः ॥ (अस्य गुणाः पर्य्यायाश्च यथा, भाव- प्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे । “चक्रमर्द्दः प्रपुन्नाटो दद्रुघ्नो मेषलोचनः । पद्माटः स्यादेडगजश्चक्री पुन्नाट इत्यपि ॥ चक्रमर्द्दो लघुः स्वादू रूक्षः पित्तानिलापहः । हृद्यो हिमः कफश्वासकुष्ठदद्रुक्रिमीन् हरेत् ॥ हन्त्युष्णन्तत्फलं कुष्ठकण्डूदद्रुविषानिलान् । गुल्मकासक्रिमिश्वासनाशनं कटुकं स्मृतम् ॥”)

"https://sa.wiktionary.org/w/index.php?title=चक्रमर्द्दः&oldid=133465" इत्यस्माद् प्रतिप्राप्तम्