बडिश

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बडिशम्, क्ली, (बलिनो मत्स्यान् श्यति नाशय- तीति । शो + कः । लस्य डत्वम् ।) मत्स्यधर- णार्थं वक्रलौहकण्टकविशेषः । व~ड्शी इति भाषा । तत्पर्य्यायः । मत्स्यवेधनम् २ । इत्यमरः । १ । १० । १६ ॥ बलिशम् ३ बडिशी ४ बडिशा ५ । इति भरतः ॥ बलिशी ६ मत्स्यवेधनी ७ । इति तट्टिकान्तरम् ॥ बलिसी ८ बलिसम् ९ वरिशी १० बलिशिः ११ । इति शब्दरत्नावली ॥ मत्स्य- भेदनम् १२ । इति जटाधरः ॥ (यथा, महा- भारते । १ । २८ । १० । “यस्ते कण्ठमनुप्राप्तो निगीर्णं बडिशं यथा । दहेदङ्गारवत् पुत्त्र ! तं विद्यात् ब्राह्मणर्षभम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बडिश नपुं।

मत्स्यवेधनम्

समानार्थक:बडिश,मत्स्यवेधन

1।10।16।2।3

आनायः पुंसि जालं स्याच्छणसूत्रं पवित्रकम्. मत्स्याधानी कुवेणी स्याद्बडिशं मत्स्यवेधनम्.।

स्वामी : धीवरः

सम्बन्धि1 : मत्स्यः

पदार्थ-विभागः : उपकरणम्,आयुधम्

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बडिश mf( आor ई)n. (also written वडिशand वलिश; See. also बरिशी)a hook , fish-hook MBh. R. Pur. Sus3r.

बडिश m. a partic. surgical instrument in the form of a hook Sus3r.

बडिश m. N. of a man with the patr. धामार्गवCar.

"https://sa.wiktionary.org/w/index.php?title=बडिश&oldid=379322" इत्यस्माद् प्रतिप्राप्तम्