उग्रम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उग्रम्, त्रि, (उच्यति क्रुधा सम्बध्यते । उच समवाये + ऋज्रेन्द्रेत्यादिना रक्, गश्चान्तादेशः ।) रौद्रं । उत्कटं । इत्यमरो मेदिनी च ॥ (“लोकेषु प्रथितं चोग्रं तपस्तस्य भविष्यति” ।) इति रामायणे ॥ “तामिस्रादिषु चोग्रेषु नरकेषु विवर्त्तनम्” ॥ इति मनुः । १२ । ७५ । यष्ट्यादिधारी । दारुणकर्म्मा । यथा मनुः ४ । २१२ । “उग्रान्नं सूतिकान्नञ्च पर्य्यायान्तमनिर्द्दशम्” ॥)

उग्रम्, क्ली, वत्सनाभनामविषं । इति राजनिर्घण्टः ॥

"https://sa.wiktionary.org/w/index.php?title=उग्रम्&oldid=117224" इत्यस्माद् प्रतिप्राप्तम्