वृक्षः

विकिशब्दकोशः तः

संस्कृतम्[सम्पाद्यताम्]

  • वृक्षः, तरु, पादपः, द्रुमः, नग, कुज, वनस्पतिः, अनोकहः, कुटः, शालः।

नामः[सम्पाद्यताम्]

  • वृक्षः नाम वनस्पतिः।
अश्वथः

अनुवादाः[सम्पाद्यताम्]

  • मलयालम्- मरम् മരം
  • आङ्ग्लम्-tree
  • हिन्दी- पॆढ्, पौधा
  • तेलुगु-వృక్షము
  • कन्नड-ವೃಕ್ಷ

उदाहरणम्[सम्पाद्यताम्]

  • आम्रफलवृक्षम्, पारिजातवृक्षः.

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृक्षः, पुं, (व्रश्च छेदने + “स्नुव्रश्चिकृत्यृषिभ्यः कित् ।” उणा० ३ । ६६ । इति सः । स च कित् । “वृक्ष वरणे । अतोऽच्यावृणोतीति वृक्ष इति सिद्धे प्रपञ्चार्थं व्रश्चिग्रहणम् ।” इति तट्टीकाया- मुज्ज्वलदत्तः ।) स्थावरयोनिविशेषः । गाछ इति भाषा । तत्पर्य्यायः । महीरुहः २ शाखी ३ विटपी ४ पादपः ५ तरुः ६ अनोकहः ७ कुटः ८ सालः ९ पलाशी १० द्रुः ११ द्रुमः १२ आगमः १३ । इत्यमरः ॥ अगच्छः १४ विष्टरः १५ मही- रुट् १६ कुचिः १७ स्थिरः १८ कारस्करः १९ नगः २० अगः २१ कुटारः २२ । इति शब्द- रत्नावली ॥ विटपः २३ कुजः २४ वनस्पतिः २५ अद्रिः २६ शिखरी २७ कुठः २८ । इति जटा- धरः ॥ कुञ्जः २९ क्षितिरुहः ३० अङ्घ्रिपः ३१ भूरुहः ३२ भूजः ३३ महीजः ३४ धरणीरुह ३५ क्षितिजः ३६ शालः ३७ । इति राज- निर्घण्टः ॥ तस्य षड्जातिर्यथा, -- “कुरण्ट्याद्या अग्रबीजा मूलजास्तूत्पलादयः पर्व्वयोनय इक्ष्वाद्याः स्कन्धजाः सल्लकीमुखाः । शाल्यादयो बीजरुहाः संमूर्च्छजास्तृणादयः । स्युर्व्वनस्पतिकायस्य षडेते मूलजातयः ॥” इति हेमचन्द्रः ॥ “संस्वेदजापि विज्ञेया वृक्षगोपशुजन्तवः ।” इत्यग्निपुराणम् ॥ भद्रप्रदवृक्षा यथा, -- श्रीभगवानुवाच । “आश्रमे नारिकेलश्च गृहिणाञ्च धनप्रदः । शिविरस्य यदीशाने पूर्व्वे पुत्त्रप्रदस्तरुः ॥ सर्व्वत्र मङ्गलार्हश्च तरुराजो मनोहरः । रसालवृक्षः पूर्ब्बस्मिन् नृणां सम्पत्प्रदस्तथा ॥ शुभप्रदश्च सर्व्वत्र सुरकारो निशामय ॥ विल्वश्च पनसश्चैव जम्बीरो वदरी तथा । प्रजाप्रदश्च पूर्ब्बस्मिन् दक्षिणे धनदस्तथा ॥ अथ वृक्षारोपणनक्षत्रादि । शतभिषा मूलं विशाखा मृगशिरः उत्तरफल्गुनी उत्तराषाढा उत्तरभाद्रपत् रोहिणी हस्ता पुष्यः रेवती च ॥ * ॥ राजमार्त्तण्डे । “प्राजेशश्रवणोत्तरादितिमघामार्त्तण्डतिष्या- श्विनी- पौष्णानुष्णमरीचयः शतभिषा स्वातिर्विशाखा तथा । जिवार्केन्दुसितेन्दुनन्दनदिने वारे स्थिरस्योदये शस्यानां वपने भवन्ति लवने शस्ते तिथौ रोपणे ॥ * ॥ हेमाम्भसा वृक्षवीजं स्नातो मन्त्रेण रोप- येत् । वसुधेति सुशीतेति पुण्यदेति धरेति च । नमस्ते सुभगे नित्यं द्रुमोऽयं वर्द्धतामिति ॥” * ॥ अथ वृक्षप्रतिष्ठानक्षत्राणि । पूष्यः अश्विनी ज्येष्ठा पूर्ब्बफल्गुनी धनिष्ठा मृगशिरः स्वाती आर्द्रा मघा रोहिणी मूलं हस्ता रेवती अनुराधा श्रवणा पुनर्व्वसुश्च । यथा हि । “पुष्याश्विशक्रभगदैवतवासवेषु चन्द्रानिलेशमघरोहिणिमूलहस्ते । पौष्णानुराधहरिभेषु पुनर्व्वसौ च कार्य्याभिषेकतरुभूतपतिप्रतिष्ठा ॥” * ॥ अथ विहिततिथ्यादिः । भविष्ये । “प्रतिपच्च द्वितीया च तृतीया पञ्चमी तथा । दशमी त्रयोदशी चैव पौर्णमासी च कीर्त्तिता ॥ सोमो बृहस्पतिश्चैव शुक्रश्चैव तथा बुधः । एते सौम्यग्रहाः प्रोक्ताः प्रतिष्ठायागकर्म्मणि ॥” इति ज्योतिस्तत्त्वम् ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृक्षः [vṛkṣḥ], [व्रश्च्-क्स Uṇ.3.66]

A tree; आत्मापराधवृक्षाणां फलान्येतानि देहिनाम्.

A tree bearing visible flowers and fruit; अपुष्पाः फलवन्तो ये ते वनस्पतयः स्मृताः । पुष्पिणः फलिनश्चैव वृक्षास्तूभयतः स्मृताः ॥ Ms.1.47.

Wrightia Antidysenterica (Mar. इंद्रजव, कुडा). -Comp. -अङ्घ्रिः the root of a tree.

अदनः a carpenter's chisel.

the fig-tree.

the Piyāla tree.-अधिरूढः [also वृक्षाधिरूढम्, वृक्षाधिरूढिः f.] a kind of embrace by women resembling the climbing of trees by creepers [बाहुभ्यां कण्ठमालिङ्ग्य मामिनी कान्त उत्थिते । अङ्कमा- रोहते यस्य वृक्षारूढः स उच्यते Nārāyaṇa's com. on N.7.97.]; क्रमोद्गता पीवरताधिजङ्घं वृक्षाधिरूढं विदुषी किमस्याः N.7.97; वल्ली पुरन्ध्रिपटलं घटिताभिरामवृक्षाधिरूढकमुपैति परामभिख्याम् Haravijaya 5.33. -अम्लः the hog-plum. (-म्लम्) the fruit of the tamarind tree; वृक्षाम्लमाममम्लोष्णं वातघ्नं कफ- पित्तलम् । पक्वं तु गुरु संग्राहि कटुकं तुवरं लघु ॥ Bhāva P.-आमयः Lac, resin. -आरोपकः the planter of a tree; Ms.3.163. -आलयः a bird.

आवासः a bird.

an ascetic. -आश्रयिन् m.

a kind of small owl.

a bird.-उत्पलः the Karṇikāra tree. -औकस् m. an ape. -कुक्कुटः a wild cock. -खण्डम् a grove or clump of trees. -गुल्मa. covered with trees and shrubs; Ms.7.192. -गृहः a bird. -चरः a monkey. -छाया the shade of a tree. (-यम्) thick shade, the shade of many trees. -तक्षकः a wood-feller. -धूपः turpentine. -नाथः the fig-tree.-निर्यासः gum, resin; Ms.5.6. -पाकः the fig tree.-भवनम् the hollow of a tree. -भिद् f. an axe. -भेदिनिm.

a carpenter's chisel. -मर्कटिका a squirrel. -वाटिका = वाटी a garden, grove of trees. -शः a lizard. -शायिका a squirrel. -संकटम् a forest-thicket.

"https://sa.wiktionary.org/w/index.php?title=वृक्षः&oldid=504570" इत्यस्माद् प्रतिप्राप्तम्