पीतः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पीतः, पुं, (पिबति वर्णान्तरमिति । पा + कर्त्तरि औणादिकः क्तः ।) वर्णविशेषः । हल्दिया इति भाषा । तत्पर्य्यायः । गौरः २ हरिद्राभः ३ । इत्यमरः । १ । ५ । १४ ॥ कुसुम्भः । अङ्कोठः । शाखोटः । पुष्परागः । इति राजनिर्घण्टः ॥ पीतवस्तूनि यथा, -- “पीतानि ब्रह्म-१जीवे-२न्द्र-३गरुडे-४श्वरदृग्-५ जटाः ६ । गौरी-७द्बापर-८गोमूत्र-९मधु-१०वीररसा-११ रजः १२ । हरिद्रा १३ रोचना १४ रीति-१५गन्धके १६ द्बीप- १७ चम्पके १८ । किञ्जल्क-१९ वल्कले २० शालि-२१ हरिताल-२२ मनःशिलाः २३ । कर्णिकारम् २४ चक्रवाक-२५ वानरौ २६ शारिकामुखम् २७ । केशवांशुक-२८मण्डूक-२९सराग-३०कनका- दयः ३१ ॥” * ॥ पीतश्वेतवाचकानि यथा, -- “पीतश्वेतौ गौर-१ द्बिजराज-२ कपर्द्द-३ शम्भु-४ हरि-५तार्क्ष्याः ६ । हैमस्तोमा-७ ष्टापद-८ महारजत-९ चन्द्र-१० कलधौताः ११ ॥” अस्यार्थः । गौरः श्वेतपीतयोः । द्बिजराजो गरुडचन्द्रयोः । कपर्द्दः शम्भुजटाजूटकपर्द्दयोः । शम्भुर्ब्रह्मत्रिलोचनयोः । हरिः पिङ्गलसिंहयोः । तार्क्ष्यो गरुडः पक्षे उच्चैःश्रवाः । हैमस्तोमः हेम्नेऽयं हैमः पक्षे हिमस्यायम् । अष्टापदं सुवर्णशरभयोः । महारजतं सुवर्णरूप्ययोः । चन्द्रः स्वर्णशशाङ्कयोः । कलधौतं हेमरूप्ययोः । “सुशोभितारकूटश्रीः स्वर्णस्तोमसमद्युतिः । दहनोपलसत्कान्तिर्गाङ्गेयच्छविपेशलः ॥” अस्यार्थः । तारकूटो रूप्यसमूहः पक्षे आर- कूटो रीतिः । सुशोभनमर्णः कनकञ्च । गोपति- तार्क्ष्यकान्तिः रविगरुडच्छविः । पक्षे गोपति- रिन्द्रः तस्य तार्क्ष्यस्तुरङ्गः । वामदेवगिरिर्मनोज्ञ- मेरुः कैलासश्च ॥ * ॥ पीतश्यामवाचकानि यथा, “पीतश्यामौ कृष्णाम्बर-१ मधुजित्-२ ध्वान्त- जेतारः ३ । विद्युत्कान्तः ४ ध्वान्तद्वेषि-५ हरि ६ स्वर्णव- च्छायाः ७ ॥” अस्यार्थः । कृष्णाम्बरं विष्णुवस्त्रे हर्य्याकाशयोः । मधुजित् मधुतुल्यविष्ण्वोः । ध्वान्तजेता सूर्य्य- तमस्तुल्ययोः । विद्युत्कान्तः मेघतडित्मनो- ज्ञयोः । ध्वान्तद्वेषी सूर्य्यान्धकारतुल्ययोः । हरिः कपिकृष्णयोः । स्वर्णवच्छायः सुवर्णसुन्दर- समुद्रतुल्यशोभयोः । इति कविकल्पलता ॥ (पर्व्वतविशेषः । यथा, मात्स्ये । १२१ । ९३ । “प्रथमः सूर्य्यसङ्काशः सुमना नाम पर्व्वतः । पीतस्तु मध्यमस्तत्र शातकौम्भमयो गिरिः ॥”)

"https://sa.wiktionary.org/w/index.php?title=पीतः&oldid=149074" इत्यस्माद् प्रतिप्राप्तम्