स्वाभाविकः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वाभाविकः, त्रि, (स्वभावे भवः । स्वभाव + ठक् । स्वभावसिद्धः । स्वभावत उत्पन्नः । यथा, -- “शैत्यं नाम गुणस्तवैव सहजः स्वभाविकी स्वच्छता किं व्रूमः शुचितां भवन्ति शुचयः स्पर्शेन यस्यापरे । किञ्चान्यत् कथयामि ते स्तुतिपदं त्वं जीविनां जीवनं त्वञ्चेन्नीचपथेन गच्छसि पयः कस्त्वां निषेद्धं क्षमः ॥” इति वल्लाल्लसेनं प्रति लक्ष्मणसेनप्रेरितश्लोकः ॥ (व्याधिप्रकारभेदः । यथा, -- “तद्दुःखसंयोगा व्याधय इत्युच्यन्ते । चतुर्व्विधाः आगन्तवः शारीरा मानसाः स्वाभाविका श्चेति । स्वाभाविकाः क्षुत्पिपासाजरामृत्यु- निद्राप्रभृतयः ॥” इति सुश्रुते सूत्रस्थामे प्रथमे- ऽध्याये ॥)

"https://sa.wiktionary.org/w/index.php?title=स्वाभाविकः&oldid=180416" इत्यस्माद् प्रतिप्राप्तम्