अर्जन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्जन¦ न॰ अर्ज--ल्युट्।

१ सम्पादने स्वामित्वसम्पादके

२ व्यापारभेदे च। स्वामित्वहेतवश्च
“सप्त वित्तागमाः धर्म्म्यादायोलाभः क्रयोजयः। विभागः संप्रयोगश्च सत्प्रतिग्रहएव च” स्मृत्युक्ताः
“स्वामी रिक्थक्रयसंविभागाधिगमेषुब्राह्मणस्याधिकं लब्धं क्षत्रियस्य विजितं निर्विष्टं वैश्य-शूद्रयोः” गो॰ उक्ताश्च रिक्थादयः साधारणाः सर्व्व-वर्णेषु। तत्राप्रतिबन्धोदायोरिक्थंयथा पित्रादिवने पुत्रादेः। अप्रतिबन्धोदायोविभागो यथा पत्नीप्रभृतेः। लब्धं प्रति-ग्रहः ब्राह्मणस्य तदसाधारणं
“याजनाध्यापनप्रतिग्रहै-र्ब्राह्मणोधनममर्ज्जयेदिति” श्रुत्या ब्राह्मणकर्त्तृकार्ज्जनस्ययाजनादिकरणकत्वनियमनात्। क्षत्रियस्य विजितं विजयलब्धमसाधारणम्। निर्विष्टं भृतिः तच्च वैश्यस्य कृषि-गोरक्षादिलब्धम् शूद्रस्य शुश्रूया वेतनं चेति तयो-रसाधारणम्। एवञ्च मनुना
“सूतानामश्वसारय्यम्” इत्यादि यदुक्तं तत् सर्व्वं तेषामसाधारणं तदपि निविष्ट-शब्दाभिधेयम्” मिता॰ शूद्रवत् वर्णसङ्करा इति स्मृतेः
“शूद्रा-णान्तु, सधर्म्माणः सर्व्वेऽपध्वंसजा स्मृताः” मनूक्तेश्च तेषांशूद्रधर्म्मातिदेशात्तथा। तच्चार्ज्जनं पुरुषार्थं न यज्ञार्थं तेनयद्यस्य वर्णस्योचितं तदतिरेकेणार्ज्जितेनापि धनेन क्रतु-सिद्धिः पुरुषस्य परं नियमातिक्रमे दोषः इति जैमि-नीये लिप्तासूत्रे स्थितम्। मिताक्षराकृता तस्य चायमर्थएवं विवृतः।
“यदा द्रव्यार्ज्जननियमानां क्रत्वर्थत्वं तदा-[Page0365-b+ 38] नियमार्जितेनैव द्रव्येण क्रतुसिद्विरिति न पुरुषस्य नियमा-तिक्रमदोषः इति पूर्व्वपक्षे सिद्धान्ते तु अर्ज्जननियमस्यपुरुषार्थत्वात् तदतिक्रमेणार्जितेनापि द्रव्येण क्रतुसिद्धि-र्भवति पुरुषस्यैव नियमातिक्रमाद्दोष इति नियमातिक्र-मार्जितस्यापि स्वत्वमङ्गीकृतम् अन्यथा क्रतुमिद्ध्यभावात्। नचैतावता चौर्य्यादिप्राप्तस्यापि स्वत्वं स्यादिति मन्तव्यम्। लोके तत्रतत्र स्वत्वप्रसिद्ध्यभावात् व्यवहारविसंवादाच्च” इति। एवञ्च प्रतिग्रहाद्युपायकं स्वत्वं लौकिकमेवअतएब
“सप्त वित्तागमाधर्म्म्याः” इत्यनेन तेषां धर्म्महेतुत्व-मात्रमुक्तं न तु भृतिप्रभृतीनां तत्रानुक्तानां स्वत्वाहेतुत्वम-पि
“अर्जयितृव्यापारोऽर्ज्जनमिति” दायभा॰।
“अर्जस्वत्वं नापादयतीति” मिता॰।
“कणिशाद्यर्जनं शिलम्” मनुः।
“अर्थानामर्जने दुःखमिति” नीति॰ अर्जधातोःप्रतियत्नार्थकतया विद्यमानपदार्थस्यैव स्वत्वसम्पाद-नार्थकत्वेन तस्य तथात्वम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्जन¦ n. (-नं) Gain, acquisition of wealth, &c. E. अर्ज, and ल्युट् affix, also written अर्ज्जन।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्जनम् [arjanam], [अर्ज्-ल्युट्] Getting, acqisition; अर्थानामर्जने दुःखम् Pt.1.163; अर्जयितव्यापारो$र्जनम् Dāy. B.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्जन n. ( Pa1n2. 3-1 , 20 Comm. )procuring , acquiring , gaining , earning Mn. xii , 79 , etc.

"https://sa.wiktionary.org/w/index.php?title=अर्जन&oldid=488573" इत्यस्माद् प्रतिप्राप्तम्