पद्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पद्यम्, क्ली, (पदं चरणमर्हतीति । पद + यत् ।) कविकृतिः । श्लोकः । इत्यमरः । ३ । ५ । ३१ ॥ तस्य लक्षणं यथा, छन्दोमञ्जर्य्याम् । “पद्यं चतुष्पदी तच्च वृत्तं जातिरिति द्बिधा । वृत्तमक्षरसंख्यातं जातिर्मात्राकृता भवेत् ॥” (तत्तु अन्वयगतिवशात् मुक्तकयुग्मकसन्दानितक- कलापककुलकभेदात् पञ्चविधम् । यदुक्तं साहित्य- दर्पणे । ६ । २८७ । “छन्दोबद्धपदं पद्यं तेनैकेन च मुक्तकम् । द्बाभ्यान्तु युग्मकं सन्दानितकं त्रिभिरिष्यते ॥ कलापकं चतुर्भिश्च पञ्चभिः कुलकं मतम् ॥” “तदूर्द्ध्वं कुलकं स्मृतम् ।” इति क्वचित् पाठः ॥) शाठ्यम् । इति जटाधरः ॥ (“पदमस्मिन् दृश्यम् ।” ४ । ४ । ८७ । इति यत् । नाति- शुष्ककर्द्दमः । इति सिद्धान्तकौमुदी ॥)

पद्यः, पुं, (पद्भ्यां जातः । पद + यत् ।) शूद्रः । इति मेदिनी ॥ (यदुक्तं यजुषि । “ब्राह्मणोऽस्य मुखमासीत् बाहू राजन्यः कृतः । ऊरूतदस्य यद् वैश्यः पद्भ्यां शूद्रोव्यजायत ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पद्य¦ न॰ पदं चरणमर्हति पद + यत्। कविकृते चतुश्चरणा-त्मके
“पद्यं चतुष्पदी तच्च वृत्तं जातिरिति द्विधा” इत्युक्ते

१ वाक्यभेदे

२ पदव्यां स्त्री। पद्भ्यां जातः यत्।

४ शूद्रेपु॰
“पद्भ्यां शूद्रो अजायत” यजु॰

३१ ।

११ पदं विध्यति यत्।

५ शर्करायां स्त्री। पदमस्मिन् दृश्यते यत्।

५ नातिशुष्केकर्दमे सि॰ कौ॰।

६ स्तुतौ विश्वः

७ पथि स्त्री अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पद्य¦ mfn. (-द्यः-द्या-द्यं) Hurting or coming in contact with the feet. n. (-द्यं)
1. Metre, verse, a stanza.
2. Wickedness, infamy. m. (-द्यः)
1. A Su4dra.
2. A part of a word. f. (-द्या)
1. A road.
2. Praise, eulogium. E. पद् to go, यत् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पद्य [padya], a.

Consisting of Padas or lines.

Measuring a pada.

Belonging to the foot; श्रीविष्णुपद्या मनुज- स्तुलस्याः श्वसन् शवो यस्तु न वेद गन्धम् Bhāg.2.3.23.

Marked with footsteps.

Belonging to a word.

Final.

द्यः A Sūdra.

A part of a word.

द्या A footpath, path, way.

Sugar.

द्यम् A stanza or verse (consisting of four lines); मदीयपद्यरत्नानां मञ्जूषैषा मया कृता Bv.4.45; पद्यं चतुष्पदी तच्च वृत्तं जातिरिति द्विधा Chand. M.2.

Praise, panegyric (स्तुति).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पद्य mf( आ)n. (fr. 3. पद्and पद)relating or belonging to a foot RV. Ka1t2h.

पद्य mf( आ)n. hurting or coming in contact with the feet Pa1n2. 4-4 , 83 ; vi , 3 , 53. Sch.

पद्य mf( आ)n. marked with footsteps ib. iv , 4 , 87 Sch.

पद्य mf( आ)n. measuring a पदin length or breadth Ka1tyS3r. (also in comp. with numerals ; See. अर्ध-, दश-)

पद्य mf( आ)n. consisting of पदs or parts of verses Br. A1s3vGr2. RPra1t.

पद्य mf( आ)n. consisting of one पदKa1tyS3r. Sch.

पद्य mf( आ)n. forming the end , final , APra1t.

पद्य m. a शूद्रL. (See. पज्-ज)

पद्य m. a part of a word , verbal element RPra1t.

पद्य m. a way , path , road L.

पद्य m. a foot as a measure of length Ka1tyS3r.

पद्य n. a verse , metre , poetry ( opp. to गद्य, prose) Va1m. Ka1vya7d. Sa1h. etc.

पद्य n. N. of sev. hymns.

"https://sa.wiktionary.org/w/index.php?title=पद्य&oldid=414037" इत्यस्माद् प्रतिप्राप्तम्