जठर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

जठरम्, त्रि, (जटति एकत्रीभवतीति । जट + बाहुलकादरः ठान्तादेशश्च । यद्बा, जनयते इति । जन + “जनेररष्ठ च ।” उणां ५ । ३८ । इति अरः ठश्चान्तादेशः ।) बद्धम् । कठिनम् । इति शब्दरत्नावली ॥ (यथा, शान्ति- शतके । ४ । १३ । “इदानीमस्माकं जठरकमठपृष्ठकठिना मनोवृत्तिस्तत् किं व्यसनिविमुखैव क्षपयसि ॥”)

जठरः, पुं क्ली, (जायते गर्भो मलं वा अस्मिन्निति । जन + “जनेररष्ठ च ।” उणां । ५ । ३८ । इति अरः ठश्चान्तादेशः ।) उदरम् । इति मेदिनी ॥ (यथा, हितोपदेशे । २ । ४४ । “पृष्ठतः सेवयेदर्कं जठरेण हुताशनम् । स्वामिनं सर्व्वभावेन परलोकममायया ॥” देशविशेषे, पुं । स तु कूर्म्मविभागे आग्नेय्यां दिशि वर्त्तते । यथा, बृहत्संहितायाम् । १४ । ८ । “आग्नेय्यां दिशि कोशलकलिङ्गवङ्गो पवङ्गजठराङ्गाः ॥” तथाच महाभारते । ६ । ९ । ४२ । “अत ऊर्द्ध्वं जनपदान् निबोध गदतो मम ।” इत्युपक्रम्य, -- “जठराः कुकुराश्चैव सदशार्णाश्च भारत ! ॥” इत्युक्तवान् ॥ पर्व्वतविशेषः । यथा, भागवते । ५ । १६ । २७ । “जठरदेवकूटौ मेरुं पूर्ब्बेणाष्टादशयोजनसहस्र- मुदगायतौ द्बिसहस्रपृथुतुङ्गौ भवतः ॥” उदररोगविशेषः । “राजी जन्म बलीनाशो जठरे जठरेषु तु ।” इति निदानस्थाने द्बादशेऽध्याये वाभटेनोक्तम् । एतत्सम्प्राप्तिर्यथा, सुश्रुते निदानस्थाने ७ अध्याये । “कोष्ठादुपस्नेहवदन्नसारो निःसृत्य दुष्टोऽनिलवेगनुन्नः । त्वचः समुन्नम्य शनैः समन्ता- द्बिवर्द्धमानो जठरं करोति ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

जठर पुं-नपुं।

जठरम्

समानार्थक:पिचण्ड,कुक्षि,जठर,उदर,तुन्द,गर्भ

2।6।77।1।3

पिचण्डकुक्षी जठरोदरं तुन्दं स्तनौ कुचौ। चूचुकं तु कुचाग्रं स्यान्न ना क्रोडं भुजान्तरम्.।

अवयव : अन्तर्जठरम्

पदार्थ-विभागः : अवयवः

जठर पुं-नपुं।

कठिनम्

समानार्थक:खक्खट,कठिन,क्रूर,कठोर,निष्ठुर,दृढ,जरठ,मूर्तिमत्,मूर्त,घन,जठर,कर्कश

3।3।190।1।1

जठरः कठिनेऽपि स्यादधस्तादपि चाधरः। अनाकुलेऽपि चैकाग्रो व्यग्रो व्यासक्त आकुले॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

जठर¦ पुंन॰ जायते जन्तुर्गर्भो वास्मिन् जन--अर--ठान्तादेशः।

१ कुक्षौ।

२ बद्धे,

३ कठिने च त्रि॰ मेदि॰।

४ देशभेदे
“अतऊर्द्धं जनपदान्” इत्युपक्रमे
“जठराः कुकुराश्चैवसदर्शार्णाश्च भारत!” भा॰ भी॰

९ अ॰।
“आस्तेऽस्याःजठरे वीर्य्यमविषह्यम् सुरद्विषाम्” भाग॰

७ ।

७ ।

९ ।
“वायुवेगसमौ वीरौ जठरौ तुरगोत्तमौ” रासा॰अयो॰

१०

७ ।

१३ ।
“यः कदाचित् सम्यक् पचति कदा-चिदाध्मानशूलोदावर्तातिसारजठरगौरवान्त्रकूजनप्रवाह-णानि कृत्वा स विषमः” सुश्रु॰। जठरयन्त्रणा जठर-व्यथा जठरामयः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

जठर¦ mfn. (-रः-रा-रं)
1. Hard, firm.
2. Bound, tied. mn. (-रः-रं) The bel- ly. E. जम् to eat, अर् Unadi affix, and ठच् substituted for the radi- cal final.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

जठर [jaṭhara], a. [जायते जन्तुर्गर्भो वास्मिन् जन्-अर ठान्त देशः Tv.]

Hard, stiff, firm.

Old.

Bound, tied.

रः, रम् The stomach, belly, abdomen; जठरं को न बिभर्ति केवलम् Pt.1.22.

The womb.

A hole, cavity.

The interior af anything.

The bosom.

Morbid affection of the bowels. -Comp. -अग्निः the digestive fire of the stomach, the gastric fluid; पञ्चाग्नेस्तस्य चान्यौ द्वावधिकं ज्वलतः क्षुधा । जठराग्नी सभार्यस्य दरिद्रस्य प्रजाधनैः Ks.73.58. -आमयः dropsy. -ज्वलनम् 'stomach heat', hunger; जठरज्वलन- ज्वलता ... करिणामरिणा Bv.1.5. -ज्वाला, -व्यथा belly-ache, colic. -यन्त्रणा, -यातना pain endured by the child in the womb.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

जठर mf( आ)n. ( v.l. for बठ्See. )hard , firm , S3a1ntis3. iv , 13 and Sa1h. ( v.l. जरट्क)

जठर mf( आ)n. for जरठ, old Bhartr2. iii , 92

जठर mf( आ)n. = बद्धL.

जठर mf( आ)n. for जवनR. ii , 98 , 24

जठर mf( आ)n. अति-, " very hard " and " very old " S3is3. iv , 29

जठर m. N. of a man Pravar. iv ( Ma1dh. )

जठर m. of a mountain BhP. v , 16 , 28

जठर m. pl. N. of a people (in the south-east of मध्य-देशVarBr2S. xiv , 8 ) MBh. vi , 350.

जठर n. ([ m. ]) the stomach , belly , abdomen , bowels , womb , interior of anything , cavity RV. AV. etc.

जठर n. certain morbid affections of the bowels Car. vi , 1 Sus3r. i , vi

जठर n. ([ cf. ? ; Goth. kilthei or qvithrs]).

जठर (= 2. ज्Sa1y. ) RV. i , 112 , 17.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

--a Mt. on the East of Meru; फलकम्:F1: भा. V. १६. २७; वा. ३५. 8; ४२. २०.फलकम्:/F connects नील and नैषध hills. फलकम्:F2: Vi. II. 2. ४१.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

Jaṭhara : m. (pl.): Name of a Janapada.

Listed by Saṁjaya among the northern Janapadas (also called Deśas 6. 10. 68) of the Bhāratavarṣa (ata ūrdhvaṁ janapadān nibodha) 6. 10. 37, 5; jaṭharāḥ kukkuśāś caiva 6. 10. 41.

_______________________________
*2nd word in right half of page p730_mci (+offset) in original book.

previous page p729_mci .......... next page p731_mci

Mahabharata Cultural Index[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

जठर न.
पेट, उदर (इन्द्रस्य त्वां जठरे दधामि), आश्व.श्रौ.सू. 1.13.1 (प्राशित्र)।

"https://sa.wiktionary.org/w/index.php?title=जठर&oldid=499653" इत्यस्माद् प्रतिप्राप्तम्