जटिलः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जटिलः, पुं, (जटा अस्त्यस्येति । जटा + “लोमादि- पामादिपिच्छादिभ्यः शनेलचः ।” ५ । २ । १०० । इति इलच् ।) सिंहः । इति शब्दचन्द्रिका ॥ (ब्रह्मचारी । यथा, मनुः । ३ । १५१ । “जटिलञ्चानधीयानं दुर्ब्बलं कितवन्तथा ॥” “जटिलो ब्रह्मचारी ।” इति तट्टीकायां कुल्लूक- भट्टः ॥) जटायुक्ते, त्रि । इति मेदिनी । ले, ९२ ॥ (यथा, कुमारे । ५ । ३० । “विवेश कश्चिज्जटिलस्तपोवनं शरीरबद्धः प्रथमाश्रमो यथा ॥”)

"https://sa.wiktionary.org/w/index.php?title=जटिलः&oldid=135236" इत्यस्माद् प्रतिप्राप्तम्