अनुराधा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अनुराधा, स्त्री, (राधां विशाखामनुगता, कुगति- प्रादयैति सूत्रेण समासः ।) सप्तदशनक्षत्रं । तस्या रूपं । सर्पाकृतिसप्ततारामयं । इति कालि- दासः । “बलिनिभताराचतुष्टयात्मकं” । इति दीपिकाटीका ॥ अस्या अधिदेवता मित्रः । तत्र जातफलं । यथा, -- “सत्कीर्त्तिकान्तिश्च सदोत्सवः स्या- ज्जेता रिपूणाञ्च कलाप्रवीणः । स्यात्सम्भवे यस्य किलानुराधा सम्पत्प्रमादौ विविधौ भवेतां ॥” इति कोष्ठीप्रदीपः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अनुराधा¦ स्त्री॰ अनुगता राधां विशाखाम् अत्या॰ स॰। सप्तविंशतिधाविभक्तस्य राशिचक्रस्य सप्तदशभागात्मके नक्ष-त्रभेदे
“रेवत्युत्तररोहिणीमृगशिरोमूलानुराधामघेति” [Page0183-b+ 38] ज्योति॰।
“राधे विशाखेसुहवानुराधाज्येष्ठासु नक्षत्रेष्विति” श्रुतिः।
“शिखिगुणरसेन्द्रियानलशशिविषयगुणर्तुपञ्चवसु-पक्षाः। विषयैकचन्द्रभूतार्णवाग्निरुद्राश्विवसुदहनाः। भूत-शतपक्षवसवो द्वात्रिंशच्चेति तारकामानम्। क्रमशोऽश्विन्या-दीनां कालस्ताराप्रमाणेन। नक्षत्रजमुद्वाहे फलमब्दैन्ता-रकामितैः सदसत्। दिवसैर्ज्वरस्य नाशो व्याधेरन्यस्य वावाच्यः” इति वृ॰ उक्तेस्तस्याः चतुस्तारात्मकत्वम्। अश्विय-मदहनकमलजशशिशूलभृददितिजीवफणिपितरः। योन्यर्यमदिनकृत्त्वष्टृपवनशक्राग्निमित्राश्च। शक्रो निरृतिस्तोयंविश्वे देवा हरिर्वसुर्वरुणः। अजपादोऽहिर्बुध्न्यः पूषाचेतीश्वरा भानाम्” इति वृहत्संहितोक्तेस्तस्या मित्रदेव-ताकत्वम्। तस्य च योगतारा
“ज्येष्ठाश्रवणमैत्राणां वार्ह-म्पत्यस्य मध्यमा” इति सूर्य्यसि॰ उक्तेर्मध्यमा तारा। तत्र भवः अणो लुक्
“लुक्तद्धितलुकीति” पा॰ स्त्रीप्रत्ययस्यलुक्। अनुराधस्तज्जाते त्रि॰। नक्षत्रेण युक्तः कालइत्यणस्तु लुप्
“लुपि युक्तवद्व्यक्तिवचनमिति” पा॰ अनु-राधा अनुराधानक्षत्रयुक्तकाले ततः सप्तम्यर्थे तृतीयेतिभेदः। पृ॰ दीर्घः। अनूराधाप्यत्र।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अनुराधा¦ f. (-धा) The seventeenth Nakshatra or lunar mansion, designated by a row of oblation; (stars in Libra.) E. अनु, and राध to accomplish, अन् affix, and टाप् for the fem.; an auspicious sign for any thing to be undertaken in. [Page029-b+ 60]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अनुराधा/ अनु-राधा ([ AV. etc. ]) f. the seventeenth of the twenty-eight नक्षत्रs or lunar mansions (a constellation described as a line of oblations).

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

--a नक्षत्र. वा. ६६. ५०; ८२. 9.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

Anurādhā : f.: Name of the seventeenth Nakṣatra.

A. Religious rites: If one gives under the Nakṣatra Anurādhā, after observing fast, a gift of a covering (prāvāra) and another cloth (vastrāntara), he is glorified in the heaven for a hundred Yugas 13. 63. 22; if one offers a śrāddha under Anurādhā he establishes a line of kings (?rājacakram pravartayet) 13. 89. 8.

B. Bad omens: Among the bad omens reported by Karṇa to Kṛṣṇa there was one which referred to the retrograde motion of Mars (Aṅgāraka) in Jyeṣṭhā and his wooing Anurādhā thereby as though tranquilizing the Maitra Nakṣatrayoga (kṛtvā cāṅgārako vakraṁ jyeṣṭhāyāṁ madhusūdana/anurādhāṁ prārthayate maitraṁ saṁśamayann iva) 5. 141. 8 (For Nī. comm. see Aṅgāraka ).

_______________________________
*2nd word in left half of page p230_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अनुराधा स्त्री.
एक नक्षत्र का नाम (इस नक्षत्र में वह व्यक्ति ‘जो वृद्धि की कामना वाला है’ अगिन्यों का आधान करे), मा.श्रौ.सू. 1.5.1.7।

"https://sa.wiktionary.org/w/index.php?title=अनुराधा&oldid=486280" इत्यस्माद् प्रतिप्राप्तम्