कृमिः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृमिः पुं, (क्रामतीति । क्रमु पादविक्षेपे + “क्रमित- मिशतिस्तम्भामत इच्च” । उणां । ४ । १२१ । इति इन् “भ्रमेः सम्प्रसारणञ्च” इति अनुवृत्तेः सम्प्र- सारणञ्च ।) कीटः । पोका इति भाषा । तत्प- र्य्यायः । नीलाङ्गः २ । इत्यमरः । २ । ५ । १३ । निलाङ्गुः ३ क्रिमिः ४ । इति तट्टीका ॥ पुण्ड्रः ५ । इति जटाधरः ॥ लाक्षा । कृमिलः । खरः । इति विश्वमेदिन्यौ ॥ उदरजातकीटरोगः । तस्यौ- षधं यथा, -- “वदरीकारवीमूलं गुडाज्येन समन्वितम् । अग्निना साधितं जग्ध्वा कृमीन्सर्व्वान् हरेच्छिव !” ॥ इति गारुडे १९४ अध्यायः ॥ (“कृमयो द्विविधाः प्रोक्ता वाह्याभ्यन्तरसम्भवाः । वाह्या यूकाः प्रिसद्गाः स्युः किञ्चुलूकास्तथान्तराः ॥

"https://sa.wiktionary.org/w/index.php?title=कृमिः&oldid=497121" इत्यस्माद् प्रतिप्राप्तम्