उष्णीष

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उष्णीषः, पुं, क्ली, (उष्णमीषते हिनस्तीति । ईष गति- हिंसादर्शनेषु । इगुपधेति कः । शकन्ध्वादिः ।) शिरोवेष्टः । इत्यमरः ॥ पाग इति भाषा । अस्य गुणाः । केशचक्षुरायुर्वद्धकत्वम् । धूलिशीतोष्ण- निवारकत्वञ्च । इति राजवल्लभः ॥ यथा । “उष्णीषं कान्तिकृत् केश्यं रजोवातकफापहम् । लघु चेच्छस्यते यस्मात् गुरुपित्ताक्षिरोगकृत्” ॥ इति भावप्रकाशः ॥ किरीटः । (यथा, महाभारते सौभबधोपाख्याने ३ । २१ । २४ । “विशीर्णमलिनोष्णीषः प्रकीर्णाम्बरमूर्द्धजः” । रजोऽवश्यायसूर्य्यांशुहिमानिलनिवारणं । प्रतिश्यायशिरःशूल-हरञ्चोष्णीषधारणम् । इति वैद्यकचक्रपाणिकृतद्रव्यगुणे गुणानां क्रिया- भिधानादिवर्गे ॥ “बाणवारं मृजावर्णतेजोबलविवर्द्धनम् । पवित्रं केश्यमुष्णीषं वातातपरजापहम्” ॥ इति सुश्रुते चिकित्सितस्थाने २४ अध्याये ॥) चिह्नान्तरम् । इति मेदिनी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उष्णीष पुं।

शिरोवेष्टनम्

समानार्थक:उष्णीष

3।3।221।1।2

पक्षः सहायेऽप्युष्णीषः शिरोवेष्टकिरीटयोः। शुक्रले मूषिके श्रेष्ठे सुकृते वृषभे वृषः॥

पदार्थ-विभागः : वस्त्रम्

उष्णीष पुं।

किरीटम्

समानार्थक:मुकुट,किरीट,मौलि,उष्णीष

3।3।221।1।2

पक्षः सहायेऽप्युष्णीषः शिरोवेष्टकिरीटयोः। शुक्रले मूषिके श्रेष्ठे सुकृते वृषभे वृषः॥

पदार्थ-विभागः : आभरणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उष्णीष¦ पु॰ न॰ उष्णमीषते हिनस्ति ईष--क शक॰ पररूपम्।

१ शिरोवेष्टनवस्त्रे(पागडि)

२ किरीटे च
“अथास्मा अध्वर्यु-रुष्णीषं प्रयच्छति तदञ्जलिना प्रतिगृह्य त्रिःप्रदक्षिणंशिरः सम्मुखं वेष्टयित्वा” आ॰ श्रौ॰ सू॰

६ ,

७ । सन्नद्धालोलितोष्णीषा निस्त्रिंशिनो याजयेयुः” आ॰ श्रौ॰

९ ,

७ ,

४ ।
“लौहितोष्णोषा ऋत्विजश्चरन्तीति” श्रुतिः। समा-वर्त्तनकाले च तस्य धारणमाचार्य्याय दानं च विहितम्।
“अथैतान्युपकल्पयीत समावर्त्तमाने मणिकुण्डले वस्त्र-युगं छत्रमुपानद्युगं दण्डं स्रजमुन्मर्दनमनुलेपनमाञ्जन-मुष्णीषमित्यात्मने आचार्य्याय च”।
“यद्युभयोर्न वि-न्देताचार्य्यायैव” आ॰ गृ॰

३ ,

८ ,

१ ,

२ । तद्धारणगुणःसुश्रु॰ उक्तः
“पवित्रं केश्यमुष्णीषं वातातपरजोऽपहम्। वर्षानिलरजोघर्महिमादीनां निबारणम्”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उष्णीष¦ mn. (-षः-षं)
1. A turban.
2. A diadem.
3. A distinguishing cog- nate mark.
4. The curly hair with which a Budd'ha is born, and which indicates his future sanctity. E. उष्ण heat, ईष् to oppose or injure, क aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उष्णीषः [uṣṇīṣḥ] षम् [ṣam], षम् [उष्णमीषते हिनस्ति ईष् क Tv.]

Anything wound round the head. रक्तोष्णीषधराः स्त्रियः Rām. 6.8.6. उष्णीषबन्धस्थाने ललाटोपरि पट्टबन्धरेखा.

Hence, a turban, diadem, crownet; बलाकापाण्डुरोष्णीषम् Mk.5.19. हेमासने कृतोष्णीषमभिषिच्य नृपं व्यधात् Bm.1.678. उष्णीषेणैव शुचिना व्यभादुत्तंसधारिणा Śiva. B.21.29. and 22.8. ˚पट्ट K.16; Ratn.1.4.

A distinguishing mark.

A characteristic mark (of hair) on the head of a Buddha which indicates his future sanctity उष्णीषः स्फुट एष मूर्धनि विभात्यूर्णेयमन्तर्भुवोः Nāg.1.17.

The top of a building.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उष्णीष mn. ( उष्णम् ईषते हिनस्ति, शकन्ध्व्-आदि[ Va1rtt. on Pa1n2. 6-1 , 94 ] पर-रूपम्T. )anything wound round the head , turban , fillet AV. xv , 2 , 1-4 S3Br. A1s3vS3r. Ka1tyS3r. MBh. etc.

उष्णीष mn. a diadem , crown L.

उष्णीष mn. a kind of excrescence on the head of बुद्ध.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Uṣṇīṣa denotes the ‘turban’ worn by Vedic Indians, men and women[१] alike. The Vrātya's turban is expressly referred to in the Atharvaveda[२] and the Pañcaviṃśa Brāhmaṇa.[३] A turban was also worn at the Vājapeya[४] and the Rājasūya[५] ceremonies by the king as a token of his position.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उष्णीष न.
पगड़ी, दीक्षित यजमान के ऊपर इसके शिर के चारों ओर तीन बार लपेटी गयी, आप.श्रौ.सू. 1०.9.9 (सोम); सोम की टहनियों को बाँधने के लिए गांठों से युक्त वस्त्र का एक टुकड़ा, 1०.24.14 एवं बाद में अवभृथ में पगड़ी के रूप में प्रयुक्त, 13.22.3; विद्यार्थी के शिर के चारो ओर लपेटी गई पगड़ी, पा.गृ.सू. 2.6.25 (समावर्तन)-वेष्टन (उष्णीषस्य वेष्टनम्) सोमयाग में यजमान के शिर के चारों ओर लपेटा गया वस्त्र, श्रौ.प.नि. 199.39। उल्मुक 180 उष्णीष

  1. Aitareya Brāhmaṇa, vi. 1;
    Satapatha Brāhmaṇa, iii. 3, 2, 3;
    iv. 5, 2, 7 (used at the sacrifice to wrap the embryo in);
    xiv. 2, 1, 8 (Indrāṇī's Uṣṇīṣa), etc.;
    Kāṭhaka Saṃhitā, xiii. 10.
  2. xv. 2, 1.
  3. xvii. 1, 14. Cf. xvi. 6, 13.
  4. Śatapatha Brāhmaṇa, v. 3, 5, 23.
  5. Maitrāyaṇī Saṃhitā, iv. 4, 3.
"https://sa.wiktionary.org/w/index.php?title=उष्णीष&oldid=493618" इत्यस्माद् प्रतिप्राप्तम्