भङ्ग

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भङ्गः, पुं, (भज्यते इति । भञ्ज + कर्म्मणि घञ् ।) तरङ्गः । इत्यमरः । १ । १० । ५ ॥ पराजयः । (भन्ज् + भावे घञ् ।) भेदः । रोगविशेषः । इति मेदिनी । गे, १३ ॥ (रोगविशेषार्थे यथा, -- “पातघातादिभिर्द्वेधा भङ्गोऽस्थ्नां सन्ध्यसन्धितः । प्रसारणाकुञ्चनयोरशक्तिः सन्धिमुक्तता ॥ इतरस्मिन् भृशं शोफः सर्व्वावस्थास्वतिव्यथा । अशक्तिश्चेष्टितेऽल्पेऽपि पीड्यमाने सशब्दता ॥ समासादिति भङ्गस्य लक्षणं बहुधा तु तत् । भिद्यते भङ्गभेदेन तस्य सर्व्वस्य साधनम् ॥ यथास्यादुपयोगाय तथा तदुपदेक्ष्यते । प्राप्याणुदारि यत्त्वस्थि स्पर्शे शब्दं करोति यत् । यत्रास्थिलेशः प्रविशेन्मध्यमस्थ्नो विदारितः । भग्नं यच्चाभिधातेन किञ्चिदेवावशेषितम् ॥ उन्नम्यमानं क्षतयत् यच्च मज्जति मज्जति । तद्दुःसाध्यं कृशाशक्तवातलाल्पाशिनामपि ॥ भिन्नं कपालं यत्कट्यां सन्धिमुक्तं च्युतञ्च यत् । जघनं प्रतिपिष्टञ्च भग्नं यत्तद्विवर्ज्जयेत् ॥ असंश्लिष्टकपालञ्च ललाटं चूर्णितन्तथा । यच्च भग्नं भवेच्छङ्खशिरः पृष्ठस्तनान्तरे । कौटिल्यम् । भयम् । विच्छित्तिः । इति हेम- चन्द्रः ॥ (विच्छित्त्यर्थे व्यवहारो यथा, -- “षड्धातुविभागो वियोगः सजीवापगमः सप्राणनिरोधः स भङ्गः स्वलोकस्वभावः । इति चरके शारीरस्थाने पञ्चमेऽध्याये ॥) रोगमात्रम् । इति राजनिर्घण्टः ॥ गमनम् । जलनिर्गमः । इत्यजयपालः ॥ (नागभेदः । यथा, महाभारते । १ । ५७ । ९ । “उच्छिखः शरभा भङ्गो विल्वतेजा विरोहणः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भङ्ग पुं।

तरङ्गः

समानार्थक:भङ्ग,तरङ्ग,ऊर्मि,वीचि

1।10।5।2।1

मेघपुष्पं घनरसस्त्रिषु द्वे आप्यमम्मयम्. भङ्गस्तरङ्ग ऊर्मिर्वा स्त्रियां वीचिरथोर्मिषु॥

 : महातरङ्गः

पदार्थ-विभागः : , द्रव्यम्, जलम्

भङ्ग पुं।

पराजयः

समानार्थक:भङ्ग,पराजय,अभिषङ्ग

2।8।111।2।3

प्रद्रावोद्द्रावसंद्रावसंदावा विद्रवो द्रवः। अपक्रमोऽपयानं च रणे भङ्गः पराजयः॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भङ्ग¦ पु॰ भन्ज--भावादौ घञ्।

१ तरङ्गे अमरः

२ पराजये।

३ खण्डे

४ रोगभेदे मेदि॰

५ कौटिल्ये

६ भये

७ पत्ररचनाभेदेहेम॰।

८ गमने

९ जलनिर्गमे च अजयपालः

१० मातुला-याम्, अमरः।

११ शणाख्ये

१२ शस्ये त्रिवृतायां (तेउडी)

१३ विजयायाञ्च (भाङ्) स्त्री।

१४ रोगमात्रे पु॰ राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भङ्ग¦ m. (-ङ्गः)
1. Breaking, splitting.
2. A chasm, a fissure, a division.
3. Defeat, discomfiture.
4. Disappointment.
5. Fear.
6. Dishonesty, fraud, circumvention, cheating.
7. Going, motion.
8. A wave.
9. A water-course, a canal.
10. Disease in general.
11. A disease, (hemi- plegia, palsy.)
12. Interruption of the voice. f. (-ङ्गा)
1. Hemp, (Cannabis sativa.)
2. A plant, commonly Teori.
3. A fibrous plant from which a sort of flax is obtained, (Crotolaria juncea.) E. भञ्ज् to break, aff. अच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भङ्गः [bhaṅgḥ], [भञ्ज्-भावादौ घञ्]

Breaking, breaking down, shattering, tearing down, splitting, dividing; भङ्गः स जिष्णोर्धृतिमुन्ममाथ Ki.17.29. वार्यर्गलाभङ्ग इव प्रवृत्तः R.5.45.

A break, fracture, breach.

Plucking off, lopping; आम्रकलिकाभङ्ग Ś.6.

Separation, analysis.

A portion, bit, fragment, detached portion; पुष्पोच्चयः पल्लवभङ्गभिन्नः Ku.3.61; R.16.16.

Fall, downfall, decay, destruction, ruin; as in राज्य˚, सत्त्व˚ &c.

Breaking up, dispersion; यात्राभङ्ग Māl.1.

Defeat, overthrow, discomfiture, rout; भग्ने भग्नमवाप्नुयात् Pt.4.41; प्रसभं भङ्गमभङ्गुरोदयः (नयति) Śi.16.72.

Failure, disappointment, frustration; तत्पूर्वभङ्गे वितथप्रयत्नः R.2.42. (v. l.); आशाभङ्ग &c.

Rejection, refusal; अभ्यर्थनाभङ्गभयेन साधुर्माध्यस्थमिष्टे$- प्यवलम्बते$र्थे Ku.1.52.

A chasm, fissure.

Interruption, obstacle, disturbance; निद्रा˚, गति˚ Ki.17.29.

Non-performance, suspension, stoppage.

Taking to flight, flight.

(a) A bend, fold. (b) A wave; क्षौमे भङ्गवती तरङ्गतरले फेनाम्बुतुल्ये वहन् Nāg.5.2; ज्वालाभङ्गैः (= Wavelike flames) Nāg.5.21.

Contraction, bending, knitting; ग्रीवाभङ्गाभिरामम् Ś1.7; so भ्रूभङ्ग U.5.36.

Going, motion.

Paralysis.

Fraud, deceit.

A canal, water-course.

A circumlocutory or round-about way of speaking or acting; see भङ्गि.

Hemp.

(With Buddhists) The constant decay taking place in the universe; constant change.

(With Jainas) A dialectical formula beginning with स्यात्. -Comp. -नयः removal of obstacles. -वासा turmeric. -सार्थ a. dishonest, fraudulent.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भङ्ग etc. See. p. 744 , col. 3.

भङ्ग mfn. breaking , bursting (said of the सोम) RV. ix , 61 , 13

भङ्ग m. breaking , splitting , dividing , shattering , breaking down or up VS. etc.

भङ्ग m. a break or breach( lit. and fig. ) , disturbance , interruption , frustration , humiliation , abatement , downfall , decay , ruin , destruction Mn. MBh. etc.

भङ्ग m. fracture(See. अस्थि-भ्)

भङ्ग m. paralysis , palsy L.

भङ्ग m. bending , bowing , stretching out(See. कर्ण-, गात्र-, -ग्रीवा-भ्)

भङ्ग m. knitting , contraction(See. भ्रू-भ्)

भङ्ग m. separation , analysis (of words) Sa1h.

भङ्ग m. overthrow , rout , defeat (also in a lawsuit) Hit. Ka1m. Ya1jn5. Sch.

भङ्ग m. rejection , refusal Ka1lid.

भङ्ग m. refutation Sarvad.

भङ्ग m. panic , fear Ra1jat.

भङ्ग m. pain(See. पार्श्व-भ्)

भङ्ग m. a piece broken off , morsel , fragment Ka1lid. Ka1d.

भङ्ग m. a bend , fold , सह्.( cf. वस्त्र-भ्); a wave Ragh. Gi1t. ([ cf. Lith. banga4])

भङ्ग m. a water-course , channel L.

भङ्ग m. fraud , deceit L.

भङ्ग m. a tortuous course , roundabout way of speaking (= or w.r. for भङ्गि) Sarvad.

भङ्ग m. toilet , fashion (for भङ्गि?) Var.

भङ्ग m. = गमनL.

भङ्ग m. N. of a serpent-demon MBh.

भङ्ग m. (with Buddhists) the constant decay taking place in the universe , constant flux or change

भङ्ग m. (with जैनs) a dialectical formula beginning with स्यात्See.

भङ्ग m. hemp AV.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


BHAṄGA : A serpent born in the Takṣaka dynasty. Bhaṅga was burnt to ashes at the Serpent Yajña per- formed by King Janamejaya. (M.B., Chapter 57, Verse 9).


_______________________________
*10th word in left half of page 116 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Bhaṅga, ‘hemp,’ is mentioned in the Atharvaveda.[१] In the Rigveda[२] it is an epithet of Soma, presumably[३] in the sense of ‘intoxicating,’ which then came to designate hemp.[४]

  1. xi. 6, 15;
    conceivably in Śāṅkhāyana Āraṇyaka, xii. 14, but not probably.
  2. ix. 61, 13.
  3. Schrader, Prehistoric Antiquities, 299.
  4. Hence the modern ‘Bang’ or Bhang,’ an intoxicant made from the dried leaves and small stalks of hemp, taken either by smoking or by eating when mixed up into a sweetmeat.

    Cf. Zimmer, Altindisches Leben, 68;
    Grierson, Indian Antiquary, 23, 260;
    Yule and Burnell, Hobson-Jobson, s.v. Bang.
"https://sa.wiktionary.org/w/index.php?title=भङ्ग&oldid=474107" इत्यस्माद् प्रतिप्राप्तम्