आमलक
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आमलकम्, क्ली, (आ + मल + क्वुन् शिल्पिसंज्ञयोः । आमलक्याः फलं । फलेलुगिति विकारावयवप्रत्य- यस्य लुक् ॥) आमलकीविशेषः । काठ आमला- इति भाषा । तत्पर्य्यायः । काष्ठधात्रीफलं २ क्षुद्रा- मलकं ३ क्षुद्रजातीफलं ४ । अस्य गुणाः । कषा- यत्वं । कटुत्वं । शीतत्वं । पित्तास्रदोषनाशित्वञ्च । इति राजनिर्घण्टः ॥ (“तद्वदामलकं शीतमम्लं पित्तकफापहं” । इति वाभटः ॥ “विद्यादामलके सर्व्वान् रसान् लवणवर्ज्जितान् । स्वेदमेदःकफोत्क्लेदपित्तरोगविनाशनं” ॥ इति चरकः ॥)
आमलकः, पुं, (आङ् + मल + क्कुन् ।) वासकवृक्षः । इति शब्दचन्द्रिका ॥ (यथा मार्कण्डेयपुराणे । “भल्लातकानामलकांस्तिन्दुकांश्च महाफलान्” ।)
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आमलक¦ त्रि॰ आ + मल--क्कुन् स्त्रीत्वे गौरा॰ ङीष्। (आ-मला)
१ धात्रीवृक्षे।
“त्रिष्वामलकमाख्यातं धात्री तिष्यफलाऽमृता। रक्तपित्तप्रमेहघ्नं पथ्यं वृष्यं रसायनम्। हन्तिवातं तदम्लत्वात् पित्तं माधुर्य्यशैत्यतः। कफं रूक्षकषायत्वात्फलं धात्र्यास्त्रिदोषजित्। यस्य यस्य फलस्येह वीर्य्यंभवति यादृशम्। तस्य तस्यैव वीर्य्येण मज्जानमपिनिर्दिशेत्” भावप्रका॰ अस्य स्त्रीत्वपक्षेऽपि तस्याः इदम्फलमण् फले लुकि क्लीवत्वमेवेति भेदः।
“यः सदाम-लकैः स्नानं करोति स विनिश्चितम्। बलीपलितनिर्मुक्तोःजीवेद्वर्षशतं नरः” वैद्य॰
“श्रीकामः सर्व्वदा स्नानं कुर्व्वीतामलकैर्नरः” गरुड पु॰। गौरादिगणे आमलशब्दपाठात्आमलशब्दोऽप्यत्र स्त्रीत्वे गौरा॰ ङीष् आमली। वृहद्ध॰पुराणे तु अमलात् कात् नेत्रजलादागतम् अण् ङीप्। इत्यभिप्रायेण निरुक्यन्तरम् दर्शितं यथा
“सजये!विजये! देवि! नावेव स्मृतयोस्तदा। नयनेषु च जातानिअमलाश्रुजलानि च। तानि नौ नयनेभ्यश्च निपेतु-र्भुवि हे सखि!। ततो जाताद्रुमाः पृथ्व्यां चत्वारोविम-लप्रभाः। ख्याता आमलकी नाम्ना जाता कादमलाद्यतः। श्यामलच्छदवृन्दास्ते कर्व्वूर--स्कन्धमू-लकाः। शिराग्रथितपत्रालीमालाकलितपत्रकाः”
“माघे-मासि सितायां तामेकादश्यां समुद्भवाम् दृष्ट्वाह्यागत्य देवोऽत्र-दधारानन्दयुक्तनुम्। तेन धात्रीति नाम्नापि राजत्या-मलकी पुनः” इति च
“सर्वदामलकी ग्राह्या परित्यज्य-रवेर्दिनम्”।
“पयोधरैरामलकीवनाश्रिताः” माघः।
“विल्यपत्रं चमाघ्यञ्च तमालामलकीदलम्। कह्लारंतुलसी चैव पद्मञ्च मुनिपुष्पकम्। एतत् पर्य्युषितं न स्यात्यच्चान्यत् कलिकात्मकम्” योगि॰ त॰।
“न धात्रीकाननंयत्र विष्णोस्तु तुलसीवनम्। तंस्लेच्छदेशं जानीयात्यत्र नो याति वैष्णवः। यत्र मातृपरा मर्त्त्या यत्रद्वादशीकृन्नरः। तुलसीकाननं धात्री तत्र विष्णुःश्रिया सह। दूर्व्वा हरति पापानि धात्री हरति पात-कम्” आह्नि॰ त॰ स्कन्द पु॰। [Page0764-b+ 38]
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आमलक¦ mfn. (-कः-की-कं) Emblic myrobalan, (Phyllanthus emblica.) m. (-कः) Another plant, (Justicia adhenatoda, &c.) n. (-कं) The fruit of the myrobalan. E. आङ् and मल् to hold, वुन् aff. fem. ङीष् having all medicinal virtues.
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आमलकः [āmalakḥ] की [kī], की 1 The tree, Emblic Myrobalan, Emblica Officinalis Gaertn (Mar. आंवळा).
N. of another tree (वासक). -कम् Fruit of the Emblic Myrobalan; बदरामलकाम्रदाडिमानाम् Bv.2.8.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आमलक mf( ई). ( g. गौरा-दिPa1n2. 4-1 , 41 )Emblic Myrobalan , Emblica Officinalis Gaertn.
आमलक n. the fruit of the Emblic Myrobalan MBh. Sus3r. ChUp. etc.
आमलक m. another plant , Gendarussa Vulgaris L.
Vedic Index of Names and Subjects
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
Āmalaka (neuter), a common word later, is found in the Chāndogya Upaniṣad (vii. 3, 1), denoting the Myrobalan fruit. Cf. Amalā.
==Foot Notes==