सारथि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सारथिः, पुं, (सरत्यश्वानिति । सृ + अन्तर्भावि- ण्यर्थः + “सर्त्तेर्णिच्च ।” उणा० ४ । ८९ । इति घथिन् ।) रथादिघोटकनियोगकर्त्ता । तत्- पर्य्यायः । नियन्ता २ प्राजिता ३ यन्ता ४ सूतः ५ क्षत्ता ६ सव्येष्टा ७ दक्षिणस्थः ८ रथ- कुटुम्बी ९ । इत्यमरः । २ । ८ । ५९-६० ॥ सादी १० सव्येष्ठः ११ नियामकः १२ चातुरिकः १३ । इति जटाधरः ॥ प्रवेता १४ रथनागरः १५ । इति शब्दरत्नावली ॥ सरथस्यापत्यं सारथिः बाह्वाद्यत इति ष्णिः । सह रथेन वर्त्तते योऽसौ सरथोऽश्वः तं प्रेरयति ढघे कादिति ष्णिर्व्वा । सारयति अश्वान् इति ञ्यन्तात् सृ गतावि- त्यस्मात् नाम्नीति अथिप्रत्ययो वा । इत्यमर- टीकायां भरतः ॥ तल्लक्षणं यथा, मात्स्ये । २१५ । २० -- २१ । “निमित्तशकुनज्ञानो हयशिक्षाविशारदः । हयायुर्व्वेदतत्त्वज्ञो भूरिभागविशेषवित् ॥ स्वामिभक्तो महोत्साहः सर्व्वेषाञ्च प्रियंवदः । शूरश्च कृतविद्यश्च सारथिः परिकीर्त्तितः ॥” समुद्रः । इति संक्षिप्तसारोणादिवृत्तिः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सारथि पुं।

सारथिः

समानार्थक:नियन्तृ,प्राजितृ,यन्तृ,सूत,क्षन्त्रृ,सारथि,सव्येष्ठ,दक्षिणस्थ,सादिन्

2।8।59।2।6

आधोरणा हस्तिपका हस्त्यारोहा निषादिनः। नियन्ता प्राजिता यन्ता सूतः क्षत्ता च सारथिः॥

स्वामी : राजा

सम्बन्धि1 : रथः

वृत्ति : रथः

पदार्थ-विभागः : वृत्तिः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सारथि¦ पु॰ सृ--अथिण, सह रथेन सरथः घोटकः तत्रनियुक्तः इञ् वा। रथादिवाहनप्रेरके नियन्तरि अमरः। तल्लक्षणं मात्स्ये

१८

९ अ॰ यथा
“निमित्तशकुनप्रज्ञोहयशिक्षाविशारदः। हयायुर्वेदतत्त्वज्ञो भूमिभागविशे-षवित्। स्वामिभक्तो महोत्साही सर्वषां च प्रियवदः। शूरश्च कृतविद्यश्च सारथिः परिकीर्त्तितः”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सारथि¦ m. (-थिः) A charioteer. E. सृ to go, (causal form,) अथिण् Una4di aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सारथिः [sārathiḥ], [सृ-अथिण् सह रथेन सरथः घोटकः तत्र नियुक्तः इञ् वा Tv.; cf. Uṇ.4.89]

A charioteer; स शापो न त्वया राजन् न च सारथिना श्रुतः R.1.78; मातलिसारथिर्ययौ 3.67.

A companion, helper; R.3.37.

The ocean.

A leader, guide.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सारथि m. (fr. स-रथ)a charioteer , driver of a car , coachman (forming a mixed caste , commonly called Sarthi , and supposed to have sprung from a क्षत्रियfather and Brahman mother) RV. etc.

सारथि m. any leader or guide(See. नौ-, वाक्य-स्)

सारथि m. a helper , assistant(See. कर्म-स्)

सारथि m. the son of a सरथ(See. ) MW.

सारथि m. the ocean ib.

सारथि m. N. of a town Lalit.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--an expert in the science of elephants, horses and chariots; one possessing geographical knowledge of the country, able to calculate the strength or weakness of the army corps; loyal, etc. M. २१५. २०-21.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Sārathi denotes the ‘charioteer’ as opposed to the warrior (Savyaṣṭhā) in the Rigveda[१] and later.[२]

  1. i. 55, 7;
    144, 3;
    ii. 19, 6;
    vi. 20, 5;
    57, 6;
    x. 102, 6.
  2. Av. xv. 2, 1;
    Taittirīya Brāhmaṇa, i. 7, 9, 1;
    Maitrāyaṇī Saṃhitā, iv. 3, 8, etc.

    Cf. Zimmer, Altindisches Leben, 296.
"https://sa.wiktionary.org/w/index.php?title=सारथि&oldid=474958" इत्यस्माद् प्रतिप्राप्तम्