अः

विकिशब्दकोशः तः
Jump to navigation Jump to search

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अः, पुं, (अतति सर्व्वं व्याप्नोति इति अततेर्डः) विष्णुः । इति मेदिनी । “अकारो विष्णुरुद्दिष्ट उकारस्तु महेश्वरः । मकार उच्यते ब्रह्मा प्रणवेन त्रयो मताः” ॥ इति दुर्गादासधृतवचनं । (क्ली । ब्रह्म । यथा, -- अ इ उ ए ओ ओम् कलाश्च मूलं ब्रह्म इति कीर्त्तितम्, इति अग्निपुराणम् ।)

अः अःकारः स च विसर्गः । द्विविन्दुमात्रकण्ठ्यवणा- ऽयं अकार उच्चारणार्थः । तन्त्रमते स च षोडश- स्वरवर्णः । (पाणिन्यादिमते अयं अयोगवाहएव । अयोगवाहस्य व्युत्पत्तिस्तु अनुस्वारशब्दे द्रष्टव्या ।) वोपदेवेनास्य विरिति संज्ञा कृता । स तु सका- ररकारयोः स्थानेऽपि भवति ॥ * ॥ “अःकारं परमेशानि ! विसर्गसहितं सदा । अःकारं परमेशानि ! रक्तविद्युत्प्रभामयम् ॥ पञ्चदेवमयो वर्णः पञ्चप्राणमयः सदा । सर्व्वज्ञानमयो वर्ण आत्मादितत्त्वसंयुतः ॥ विन्दुत्रयमयो वर्णः शक्तित्रयमयः सदा । किशोरवयसाः सर्व्वे गीतवाद्यादितत्पराः ॥ शिवस्य युवती एताः स्वयं कुण्डली मूर्त्तिमान्” ॥ इति कामधेनुतन्त्रम् ॥ (वङ्गीयभाषायां) तस्य लेखनप्रकारो यथा । “अकाररूपदक्षे तु द्विविन्दुरध ऊर्द्ध्वतः । ब्रह्मेशविष्णवस्तासु मात्रा शक्तिः समीरिता ॥ विन्दुद्वयान्विता रेखा सैवाद्या शक्तिरीरिता” ॥ इति वर्णोद्धारतन्त्रम् ॥ * ॥ अस्य नामानि यथा । “अः कण्ठको महासेनः कालापूर्णामृता हरिः । इच्छा भद्रा गणेशश्च रतिर्विद्यामुखी सुखम् ॥ द्विविन्दुरसना सोमोऽनिरुद्धो दुःखसूचकः । द्विजिह्वः कुण्डलं वक्त्रं सर्गः शक्तिर्निशाकरः सुन्दरी सुयशानन्ता गणनाथो महेश्वरः” ॥ इति तन्त्रशास्त्रम् ॥

अः, पुं, महेश्वरः । इत्येकाक्षरकोषः ॥ (यदुक्तम्, -- महाभारते १३ । १७ । १२६ । “विन्दुर्विसर्गः सुमुखः शरः सर्व्वायुधः सहः” ॥)

"https://sa.wiktionary.org/w/index.php?title=अः&oldid=483639" इत्यस्माद् पुनः प्राप्तिः