अकारणगुणोत्पन्नगुण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकारणगुणोत्पन्नगुणः, पुं, (विना कारणगुणं उत्पन्ना जाताः ये गुणाः । अकारणगुण + उत्पन्न + गुण ।) स्वाभाविकगुणः । न्यायमते वि- भुनिष्ठविशेषगुणाः यथा, -- बुद्धिः १ सुखं २ दुःखं ३ इच्छा ४ द्वेषः ५ यत्नः ६ धर्म्मः ७ अ- धर्म्मः ८ भावना ९ शब्दः १० । (“अतीन्द्रिया विभूनान्तु ये स्युर्वेशेषिका गुणाः । अकारणगुणोत्पन्ना एते तु परिकीर्त्तिताः” ॥ इति भाषापरिच्छेदे । अकारणेति कारणगुण- पूर्व्वका रूपादयो वक्ष्यन्ते । बुद्ध्यादयस्तु न तादृशाः । आत्मादेः कारणाभावात् ।) इति सिद्धान्तमुक्तावली ॥

"https://sa.wiktionary.org/w/index.php?title=अकारणगुणोत्पन्नगुण&oldid=109757" इत्यस्माद् प्रतिप्राप्तम्