अक्रोधः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्रोधः, पुं, (न क्रोध इति नञ् समासः । नास्ति क्रोधो यस्य इति वा ।) क्रोधश्चित्तविकारः तद्वि- परीतः । स तु आश्रमिणां दशधर्म्मान्तर्गतधर्म्मः । इति जटाधरः ॥ (यथाह मनुः -- “धृतिः क्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रहः । धीर्विद्या सत्यमक्रोधो दशकं धर्म्मलक्षणम्” ॥ इति ।) वाच्यलिङ्गस्तु क्रोधरहितव्यक्तौ ॥

"https://sa.wiktionary.org/w/index.php?title=अक्रोधः&oldid=483806" इत्यस्माद् प्रतिप्राप्तम्