अक्षपटल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्ष(क्षि)पटल¦ न॰ अक्ष्णः नेत्रस्य पटलमिवाच्छादकत्वात्। नेत्रस्यावरके कोशभेदे नेत्ररोगभेदे (छानि) च। पटलस्थ-रोगभेदादि शुश्रुते उक्तं यथा
“मसूरदलमात्रान्तु पञ्चभूतप्रसादजाम्। खद्योतविस्फुलि-ङ्गाभां सिद्धां तेजोभिरव्ययैः॥ आवृतां पटलेनाक्ष्णोर्वा-ह्येन विवराकृतिम्। शीतसात्म्यां नृण्णां दृष्टिमाहुर्नयनचिन्तकाः॥ रोगांस्तदाश्रयान् घोरान् षट् च षट् चप्रचक्ष्महे। पटलानुप्रविष्टस्य तिमिरस्य च लक्षणम्॥ शिराभिरभिसम्प्राप्य विगुणोऽभ्यन्तरे भृशम्। प्रथमे पटलेदोषो यस्य दृष्टौ व्यवस्थितः॥ अव्यक्तानि स रूपाणिसर्व्वाण्येव प्रपश्यति। दृष्टिर्भृशं विह्वलति द्वितीयं पटलंगते। मक्षिकाः मशकान् केशान् जालकानि च पश्यति। मण्डलानि पताकाश्च मरीचीः कुण्डलानि च॥ परिप्लवांश्चविविधान् वर्षमभ्रं तमांसि वा। दूरस्थान्यपि रूपाणिमन्यते च समीपतः॥ समीपस्थानि दूरे च दृष्टेर्गोचर-विभ्रमात्। यत्नवानपि चात्यर्थं सूचीपाशं न पश्यति॥ ऊर्द्धं पश्यति नाधस्तात्तृतीयं पटलं गते। महान्त्यपि चरूपाणि च्छादितानीव वाससा॥ कर्णनासाक्षियुक्तानिविपरीतानि वीक्षते॥ यथादोषञ्च रज्येत दृष्टिर्द्दोषे बली-यसि॥ अधःस्थिते समीपस्थं दूरस्थञ्चोपरिस्थिते। पार्श्व-स्थिते तथा दोषे ऽपार्श्वस्थानीव पश्यति॥ समन्ततः स्थितेदोषे सङ्कुलानीव पश्यति। दृष्टिमध्यगते दोषे स एकं मन्यते[Page0043-b+ 38] द्विधा॥ द्विधास्थिते त्रिधा पश्येद्बहुधा चानवस्थिते। तिमि-राख्यः स वै दोषश्चतुर्थपटलङ्गतः॥ रुणद्धि सर्वतो दृष्टिंलिङ्गनाशः स उच्यते। तस्मिन्नपि तमोभूते नातिरूढेमहागदे॥ चन्द्रादित्यौ सनक्षत्रावन्तरिक्षे च विद्युतः। निर्मलानि च तेजांसि भ्राजिष्णूनि च पश्यति॥ स एवलिङ्गनाशस्तु नीलिकाकाचसंज्ञितः” इति। अक्षाणां व्यवहाराणां पटलमस्त्यस्य अच्

६ त॰। अक्ष-दर्शके धर्म्माध्यक्षे पु॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षपटल/ अक्ष--पटल n. court of law

अक्षपटल/ अक्ष--पटल n. depository of legal document Ra1jat.

"https://sa.wiktionary.org/w/index.php?title=अक्षपटल&oldid=483843" इत्यस्माद् प्रतिप्राप्तम्